विदूषकः-किं ति सङ्किस्सदि । णं अस्समवासपरिचिदो एव साहामिओ। [किमिति शङ्कयते । नन्वाश्रमवासपरिचित एव शाखामृगः।]
कुमार:-(सस्मितम् ) तात वन्दे ।
विदूषकः -सोत्थि भवदो । वड्ढ्दु भवम् । [ स्वस्ति भवते वर्धतां भवान् ।]
(ततः प्रविशत्युर्वशी कञ्चुकी च)
कञ्चुकी-इत इतो देवी।
उर्वशी-(प्रविश्यावलोक्य च।) को णु क्खु एसो कणअपीठोवविठ्ठो महाराएण सज्जीअमाणसिहण्डो चिट्ठदि । (तापसीं दृष्ट्वा) अम्महे ! सञ्चवदीसहिदो पुत्तओ मे आऊ महन्तो क्खु संवुत्तो। [को नु खल्वेष कनकपीठोपविष्टो महाराजेन सज्ज्यमानशिखण्डस्तिष्ठति । (तापसीं दृष्ट्वा ।) अहो! सत्यवतीसहितः पुत्रको मे आयुर्महान् खलु संवृत्तः।]
विदूषकः-किमिति शङ्कयते शङ्कायाः किं कारणम् । नास्तीति भावः। यतः आश्रमे वासः तेन परिचितः ज्ञात एव शाखामृगः कपिः। “वानरा हि वृक्षेभ्यो फलान्याहृत्य ऋषीनुपतिष्ठन्तीति" बाणभट्टैः प्रतिपादितम् । तदनुसारम् आश्रमवासिनो बालस्यास्य कपिस्तु सम्यक् परिचित एव । सम्यक् परिचितस्य शङ्का निरर्थकेति मत्वा विदूषकः स्वस्य विरूपत्वात् विकृतवेषत्वात् वानरसाम्यं तदेव च शङ्काहेतुं मनुते किन्तु कपिभिः परिचितत्वप्रतिपादनेन च तन्निवारयति ।
कुमार:-(सस्मितम्-ईषद्धास्येन) तात वन्दे प्रणमामि । विदूषकस्य स्वजनकसखित्वात् तातेति सम्बोधनम् । “तातस्तु जनकः पिता" इति ।
विदूषकः-स्वस्ति भवते अत्र स्वस्तियोगे चतुर्थी । वर्धतां भवान् इति आशीः।
(ततः उर्वशी कञ्चुकी च प्रविशतः)
कञ्चुकी-इत इतो देवी आगम्यतामिति शेषः ।
उर्वशी-(प्रविश्य अवलोक्य च) को नु खलु एष कनकपीठोपविष्टः सुवर्णपीठासीनः महाराजेन स्वयं सज्ज्यमानशिखण्डः प्रसाध्यमानचूडः तिष्ठति । शिखण्डश्चूडा "शिखण्डोबर्हचूडयोरिति" शब्दमुक्तावली । (तापसीं दृष्ट्वा) अहो इति अकल्पितस्य दर्शनादाश्चर्यव्यञ्जकम् । सत्यवतीति तापसी नाम, तया