द्वादशः सर्गः।
एवं प्रभातं वर्णयित्वा भगवतः प्राभातिकप्रस्थानवर्णनाय प्रक्रमते-
इत्थं रथाश्वेभनिषादिनां प्रगे गणो नृपाणामथ तोरणाद्बहिः ।
प्रस्थानकालक्षमवेषकल्पनाकृतक्षणक्षेपमुदैक्षताच्युतम् ॥१॥
इत्थमिति ॥ इत्थं भूते । पूर्वसर्गोक्तविध इत्यर्थः । प्रगे प्रातःकाले । 'सायं साये प्रगे प्रातः' इत्यव्ययेष्वमरः । अथ सूर्योदयानन्तरं रथाश्वेभे निषीदन्तीति रथाश्वेभनिषादिनाम् । रथेषु अश्वेषु इभेषु च स्थितानामित्यर्थः । नृपाणां गणः । तोरणाद्भगवतो बाह्यद्वाराद्बहिः । 'अपपरिबहिरञ्चवः पञ्चम्या' (२।१।१२) इति पञ्चमीसमासविधानाज्ज्ञापकात्पञ्चमी । 'तोरणोऽस्त्री बहिर्द्वारम्' इत्यमरः । प्रस्थानकाले प्रयाणकाले क्षम उचितो वेष आकल्पः। 'आकल्पवेषौ नेपथ्यम्' इत्यमरः । तस्य कल्पनया संपादनेन कृतः क्षणक्षेपः क्षणविलम्बो येन तमच्युतं हरिमुदैक्षत । प्रतीक्षितवानित्यर्थः । अत्राच्युतविलम्बस्य विशेषणगत्या प्रतीक्षणहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः । अस्मिन्सर्गे विषमपादयोर्जागतमिन्द्रवंशा वृत्तम् । 'स्यादिन्द्रवंशा ततजै रसंयुतैः' इति लक्षणात् । समपादयोस्तु जागतमेव वंशस्थं वृत्तम् । 'जतौ तु वंशस्थमुदीरितं जरौ' इति लक्षणात् । तदेवमुभयमेलनादुपजातिभेदोऽयम् । अत एव त्रिष्टुबिन्द्रवज्रोपेन्द्रवज्रालक्षणानन्तरम् 'अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' इत्युक्त्वोक्तम् । 'इत्थं किलान्यास्वपि मिश्रितासु वदन्ति जातिष्विदमेव नाम' इति ॥ १ ॥
स्वक्षं सुपत्रं कनकोज्ज्वलद्युतिं जवेन नागाञ्जितवन्तमुच्चकैः ।
आरुह्य तार्क्ष्यं नभसीव भूतले ययावनुद्धातसुखेन सोऽध्वना ॥२॥
स्वक्षमिति ॥ स हरिः शोभनोऽक्षश्चक्रधारणदारुभेदो यस्य तं स्वक्षम् । 'स्यादक्षश्चक्रधारणः' इति वैजयन्ती । अन्यत्र शोभनेन्द्रियम् । 'अथाक्षमिन्द्रियम्' इत्यमरः । सुपत्रं शोभनं पत्रं वाहनं यस्य तम् । स्वश्वमित्यर्थः । अन्यत्र सुपक्षम् । 'पत्रं वाहनपक्षयोः' इत्यमरः । कनकोज्ज्वलद्युतिं कनकरचनावन्तम् । अन्यत्र कनकवदुज्ज्वलद्युतिं कनकवर्णम् । जवेन नागान् गजान् , उरगांश्च जितवन्तम्। ततोऽधिकवेगमित्यर्थः । अन्यत्र नागान्तकमित्यर्थः । उच्चकैरुन्नतं तार्क्ष्यं रथं गरुडं च । 'तार्क्ष्यः स्यादश्वकर्णाख्यवृक्षे रथतुरंगयोः । तार्क्ष्यं रसाञ्जने तार्क्ष्यो गरुडे गरुडाग्रजे ॥' इति विश्वः । आरुह्य नभसीव भूतलेऽनुद्धातेनाप्रतिघातेन सुखः सुगमस्तेनाध्वना ययौ गरुडमारुह्य नभसीव रथमारुह्य भूतलेऽप्यप्रतिहतं ययौ। गरुडवदेव तद्रथस्यापि सर्वत्राप्रतिहतगतित्वादित्यर्थः । नायं श्लेषः प्रकृताप्रकृतवादेऽपि तार्क्ष्यमिति विशेष्यश्लेषायोगादन्यत्राप्रसङ्गाच्च श्लेषसंकीर्णेयमुपमा ॥ २ ॥
हस्तस्थिताखण्डितचक्रशालिनं द्विजेन्द्रकान्तं श्रितवक्षसं श्रिया ।
सत्यानुरक्तं नरकस्य जिष्णवो गुणैर्नृपाः शार्ङ्गिणमन्वयासिषुः ॥३॥
हस्तेति ॥ अत्र नृविशेषणानि शार्ङ्गिण्यपि विभक्तिविपरिणामेन योज्यानि ।