स्मितरुचिरिव सद्यः साभ्यसूयं प्रभेति
स्फुरति विशदमेषा पूर्वकाष्ठाङ्गनायाः ॥ १२ ॥
उदयमिति ॥ य इन्दुः मे मम संगतावुदितदीप्तिः प्रवृद्धद्युतिः सन् उदयमुदयाद्रिम् , अभ्युदयं च याति स इन्दुरेषोऽपरां पश्चिमाशां, पराङ्गनां च गत्वा पतत्यस्तमेति, पातित्यं च गच्छति । न वरम् । अनर्हमित्यर्थः । इति सद्यः साभ्यसूयं यथा तथा पूर्वकाष्ठा प्राची सैवाङ्गना, पूर्वनायिका च गम्यते । तस्याः स्मितरुचिर्मन्दहासकान्तिरिवैषा प्रभा विशदं निर्मलं स्फुरति प्रकाशते । प्राच्यामीषद्विशदा प्रभा प्रादुरभूदित्यर्थः । अत्र प्राचीगतप्राभातिकप्रभायामिन्दोः पराङ्गनासङ्गपातित्यनिमित्ता चेतनधर्मस्मितरुचित्वोत्प्रेक्षा पूर्वकाष्ठाङ्गनाया इति रूढिव्यूढेत्यनयोरङ्गाङ्गिभावेन संकरः ॥ १२ ॥
चिररतिपरिखेदप्राप्तनिद्रासुखानां
चरममपि शयित्वा पूर्वमेव प्रबुद्धाः ।
अपरिचलितगात्राः कुर्वते न प्रियाणा-
मशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥१३॥
चिरेति ॥ चरममपि शयित्वा पश्चात्सुप्त्वापि पूर्वमेव प्रबुद्धाः । 'सुप्ते पश्वाच्च या शेते पूर्वमेव प्रबुध्यते । नान्यं कामयते चित्ते सा स्त्री ज्ञेया पतिव्रता ॥' इति स्मरणादिति भावः । तथापि तरुण्योऽपरिचलितगात्रा अस्पन्दवपुष्काः सत्यः चिररतिपरिखेदेन प्राप्तनिद्रासुखानां प्रियाणामशिथिलो गाढो यो भुजचक्रेण परस्परभुजवलयेनाश्लेषस्तस्य भेदं विश्लेषं विस्रंसनं न कुर्वते किंत्वाश्लिष्यैव स्थिताः, अन्यथा तन्निद्राभङ्गः स्यात् । 'शयानं न प्रबोधयेत्' (याज्ञ० आचा०-अ० १३८) इति निषेधास्कन्दभयादिति भावः । रतिश्रमोऽत्र संचारी तदनुभावो निद्गा ॥१३॥
कृतधवलिमभेदैः कुङ्कुमेनेव किंचि-
न्मलयरुहरजोभिर्भूषयन्पश्चिमाशाम् ।
हिमरुचिररुणिम्ना राजते रज्यमानै-
र्जरठकमलकन्दच्छेदगौरैर्मयूखैः ॥ १४ ॥
कृतेति ॥ हिमरुचिश्चन्द्रः अरुणिम्नाऽस्तमयरागेण हेतुना रज्यमानैर्लोहितायमानैः। रञ्जेर्दैवादिकात्कर्तरि शानच् । 'अनिदिताम्-' (६।४।२४) इति नलोपः । 'त्रीणि रज्यति राजति लोहितायति चात्मन' इति भट्टमल्लः । जरठस्य परिणतस्य कमलकन्दस्य छेदा इव गौराः शुभ्राः । छेदग्रहणं धावल्यार्थम् । 'गौरः पीते सितेऽरुणः' इति विश्वः । तैर्मयूखैः कुङ्कुमेन किंचित्कृतो धवलिमभेदो धावल्यभङ्गो येषां तैरीषद्भग्नस्वधावल्यैः मलयरुहरजोभिश्चन्दनरेणुभिरिव पश्चिमाशां
प्रेयसीमिवेति भावः । भूषयन् राजते । उपमालंकारः ॥ १४ ॥