पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६७
एकादशः सर्गः ।

व्याजेन कपटेन सुप्ता स्त्री । अथ कल्ये प्रभाते । 'प्रत्यूषोऽहर्मुखं कल्यम्' इत्यमरः । कृकवाकोः कुक्कुटस्य । 'कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः' इत्यमरः । 'कृके वचः कश्च' (उ० ६) इत्युण्प्रत्ययः । तारमुच्चै रुतं कूजितमाकर्ण्य कथमपि गात्रजृम्भणादिव्याजेन परिवृत्ता संमुखीभूता निद्रयान्धा किल अजानतीव मुकुलितनयनैव मीलिताक्षी सत्येव प्राणनाथमाश्लिष्यति । एषा कलहान्तरिता ॥ ९॥

  गतमनुगतवीणैरेकतां वेणुनादैः
   कलमविकलतालं गायकैर्बोधहेतोः ।
  असकृदनवगीतं गीतमाकर्णयन्तः
   सुखमुकुलितनेत्रा यान्ति निद्रां नरेन्द्राः ॥१०॥

 गतमिति ॥ अनुगतवीणैरनुसृतवीणैर्वीणासंवादिभिर्वेणुनादैर्वंशस्वरैः एकतामेकरूपतां गतं कलमव्यक्तमधुरं अविकलोऽविसंवादी तालः कांस्यादितालो यस्य तत् बोध एव हेतुस्तस्य बोधहेतोः बोधकारणेन । बोधनार्थमित्यर्थः । फलस्यापि कारणत्वमिच्छाद्वारा स्वर्गादिवत्फलरागस्य तत्साधनप्रवृत्तिहेतुत्वात्षष्ठी । गायकैर्वैतालिकैरनवगीतमगर्हितम् । 'अवगीतं तु निर्वादे मुहुर्दुष्टेऽपि गर्हिते' इति विश्वः । गीतं गीयमानं वस्तु आवृत्तिर्वा । गीतशब्दस्य गीतं गानं समाकर्णयन्तो नरेन्द्राः सुखेन गानसुखेन मुकुलितनेत्रा निमीलिताक्षाः सन्तो निद्रां यान्ति भजन्ति । वृत्त्यनुप्रासोऽलंकारः॥ १० ॥

  परिशिथिलितकर्णग्रीवमामीलिताक्षः
   क्षणमयमनुभूय स्वप्नमूर्ध्वज्ञुरेव ।
  रिरसयिषति भूयः शष्पमग्रे विकीर्णं
   पटुतरचपलौष्ठः प्रस्फुरत्प्रोथमश्वः ॥११॥

 परीति ॥ अयमश्वः परिशिथिलितं त्रस्तमुक्तं कर्णग्रीवं कर्णौ च ग्रीवा च यस्मिन्कर्मणि तद्यथा तथा आमीलिताक्षः ऊर्ध्वे जानुनी यस्य स ऊर्ध्वज्ञुः । ऊर्ध्वजानुस्तिष्ठन्नित्यर्थः । 'ऊर्ध्वज्ञुरूर्ध्वजानुः स्यात्' इत्यमरः । 'ऊर्ध्वाद्विभाषा' (५।४।१३०) इति जानुशब्दस्य ज्ञुरादेशः । क्षणं स्वप्नं निद्रामनुभूय । उत्तमाश्वलक्षणमेतत् । भूयः पुनरपि पटुतरौ ग्रासग्रहणसमर्थौ चपलौ चञ्चलौ चोष्ठौ यस्य स सन् प्रस्फुरत्प्रोथं प्रस्फुरमाणघोणं यथा तथा । 'घोणा तु प्रोथमस्त्रियाम्' इत्यमरः । अग्रे विकीर्णं क्षिप्तं शष्पं घासम् । 'शष्पं बालतृणं घासः' इत्यमरः । रिरसयिषति रसयितुमास्वादयितुमिच्छति । रसयतेः सन्नन्ताल्लट् । स्वभावोक्तिरलंकारः । 'स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्' इति ॥ ११ ॥

  उदयमुदितदीप्तिर्याति यः संगतौ मे
   पतति न वरमिन्दुः सोऽपरामेष गत्वा ।