पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६६
शिशुपालवधे

वाच्यलक्ष्यव्यङ्ग्यरूपमभिधेयजातं चिन्तयन्ति विचारयन्ति । इवशब्दस्योपलक्षणत्वात् काव्यवदिति वतिप्रत्ययेऽप्यनेकशब्दार्थगता श्रौती पूर्णा वाक्यार्थोपमा काव्यवदिति तद्धितगता, कवय इति समासगता चेति संकीर्णा ॥ ६॥

  क्षितितटशयनान्तादुत्थितं दानपङ्क-
   प्लुतबहुलशरीरं शाययत्येष भूयः ।
  मृदुचलदपरान्तोदीरितान्दूनिनादं
   गजपतिमधिरोहः पक्षकव्यत्ययेन ॥७॥

 क्षितीति ॥ क्षितितटं भूतलमेव शयनान्तः शयनस्थानं तस्मादुत्थितम् । सुप्तोत्थितमित्यर्थः । अत एव दानपङ्कप्लुतबहुलशरीरं मदकर्दमोक्षितमहाकायं गजपतिमेषोऽधिरोहतीत्यधिरोह आरोहणः । पचाद्यच् । मृदु मन्दं चलता अपरान्तेन पश्चिमपादेनोदीरित उत्पादितोऽन्दूनिनादः शृङ्खलारवो यस्मिन्कर्मणि तद्यथा तथा । पक्ष एव पक्षकः पार्श्वः । 'पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु' इति वैजयन्ती । तस्य व्यत्ययेन । पार्श्वान्तरेणेत्यर्थः। भूयः शाययति शयनं कारयति । 'गतिबुद्धि-' (१।४।५२) इत्यादिना अणि कर्तुः कर्मत्वम् । स्वभावोक्तिरलंकारः ॥ ७॥

  द्रुततरकरदक्षाः क्षिप्तवैशाखशैले
   दधति दधनि धीरानारवान्वारिणीव ।
  शशिनमिव सुरौघाः सारमुद्धर्तुमेते
   कलशिमुदधिगुर्वीं बल्लवा लोडयन्ति ॥८॥

 द्रुतेति ॥ द्रुततरकरा अतिलघुहस्तास्ते च ते दक्षाश्च बल्लवा गोपालाः । 'आभीरः स्यान्महाशूद्रो गोपालो बल्लवस्तथा' इति वैजयन्ती । विशाखा प्रयोजनमस्येति वैशाखो मन्थनदण्डः । 'वैशाखमन्थमन्थानमन्थानो मन्थदण्डके' इत्यमरः । 'विशाखाषाढादण्मन्थदण्डयोः (५।१।११०) इत्यण्प्रत्ययः । वैशाखः शैल इवेत्युपमितसमासः । साहचर्याक्षिप्तो वैशाखशैलो यस्मिन् । धीरान् गम्भीरानारवान् दधति दधनि दध्नि । 'विभाषा ङिश्योः' (६।४।१३६) इति विकल्पादल्लोपाभावः । वारिणीव सुरौघाः शशिनमिव सारं नवनीतमुद्धर्तुमुत्क्रष्टुमुदधिरिव गुर्वीम् । 'उपमानानि सामान्यवचनैः' (२।१।५५) इति समासः । तां कलशिं कुम्भीमेते लोडयन्ति मथ्नन्ति । एषापि पूर्वतरवत्पूर्णा वाक्यार्थोपमा वाक्यसमाससंकीर्णा च ॥ ८॥

  अनुनयमगृहीत्वा व्याजसुप्ता पराची
   रुतमथ कुकवाकोस्तारमाकर्ण्य कल्ये ।
  कथमपि परिवृत्ता निद्रयान्धा किल स्त्री
   मुकुलितनयनैवाश्लिष्यति प्राणनाथम् ॥९॥

 अनुनयमिति ॥ अनुनयं प्रियप्रार्थनामगृहीत्वा नाङ्गीकृत्य पराची पराङ्मुखी