[कस्मात्त्वया शिक्षितमेतद्गतिलालस । |
(पुनश्चर्चरी । 'हंस ! प्रयच्छे' त्यादि पठित्वा द्विपदिकया निरूप्य । विहस्य)
एष स्तेनानुशासी राजेति भयादुत्पतितः । यावदन्यमवकाशमवगाहिष्ये ।
(द्विपदिकया परिक्रम्यावलोक्य ।) अये! प्रियासहायश्चक्रवाकस्तिष्ठति। तावदेनं पृच्छामि ।
(अनन्तरे कुटिलिका)
मम्मररणिअमणोहरए [ मर्मररणितमनोहरे]
(मल्लघटी)
कुसुमिअ तरुवरपल्लविए [ कुसुमिततरुवरपल्लविते । ]
हे गतो गमने लालसा अभिलाषा यस्य सः तत्सम्बुद्धौ हे गत्युत्सुक ! यदि सा जघनस्थलस्य भरेण भारेण अलसा गुर्वी परं दृष्टा न चेत् कस्मात् त्वया एतद्गमनम् शिक्षितम् । तां विहाय तादृशगतेः शिक्षकाभावात् , त्वयि च तादृशगतियोगात् नूनं तयैव त्वं पाठितः त्वया च सा नूनं दृष्टेति निर्विवादः।
उत्तरार्धमिदं रे रे हंसा इति गाथायाः । उन्मत्तत्वात् राजा तमेवार्थं पुनःपुनरावर्तयति ॥ ३४ ॥
[पुनश्चर्चरी हंस प्रयच्छ (४॥३३) इति पद्यं पठित्वा द्विपदिकया निरूप्य विहस्याह-]
एष इति-चोराणां दण्डयिता राजा भवति । राजहंसश्च चोरः । मां राजानं मत्वा चोरोऽयं पलायितः । एष स्तेनान् चोरान् अनुशास्ति दण्डयति असौ चोराणां दण्डयिता राजा विद्यते इति विज्ञाय भयादुत्पतितः । अत्र गर्हणाख्यं नाट्यलक्षणम् यदुक्तम्-दूषणोद्धोषणाय तु भर्त्सना गर्हणं तु तत् ॥...... हंसस्य स्वभावोऽयं यदुड्डयनं । तत्र कवेः राजभयादिवोत्पतनस्य सम्भावितत्वादुत्प्रेक्षालङ्कारः। यावत् अत एवाहमन्यमवकाशं स्थलं अवगाहिष्ये मार्गयिष्ये ।
द्विपदिकया परिक्रम्यावलोक्य । अये प्रिया सहायः यस्य तादृशः स्ववल्लभासनाथः चक्रवाकस्तिष्ठति । तावदेनं पृच्छामि ।
( अनन्तरे कुटिलिका तदाख्यनाट्यविशेषः । रागेण रहितं यत्तु अर्धमत्तलिकायुतम् । भाषयैष च तन्नाट्यं कुटिलीसंज्ञकं मतम् ॥ अर्धमत्तलिकाया लक्षणं तु 'उपेतापसृतौ पादौ वामश्चेद्रेचितः करः । कट्यामन्यस्तदा त्वर्धमत्तली तरुणे मदे'।) गजान्योक्त्या स्वावस्थामाह-
मर्मरेति-मर्मरः शुष्काणां पर्णानां ध्वनिस्तथा खगानां रणितं ताभ्यां मनोहरे कुसुमितैः तरुवरैः पल्लविते समाच्छादिते व्याप्ते वा कानने वने दयितायाः विरहेणोन्मादितः गजेन्द्रः भ्रमति इति ।