(चर्चरी)
दइआविरहुम्माइअओ [दयिताविरहोन्मादितः।] |
(द्विलयान्तरे चर्चरी)
गोरोअणाकुंकुमवण्णा चक्क भणइ मइ |
(चर्चरिकयोपसृत्य जानुभ्यां स्थित्वा)
रथाङ्ग नाम वियुतो रथाङ्गश्रोणिबिम्बया । |
मल्लघटी नाट्यविशेषः ॥ ३५॥
'लयस्तु नृत्यगीतवाद्यानां साम्यम् । लयः साम्य'मित्यमरः । लयस्तु त्रिविधः द्रुतो मध्यो विलम्बश्च । तत्र द्वितीयो लयो द्विलयः तदन्तरे तन्मध्ये चर्चरी नाम गीतिः।
गोरोचनेति-हे चक्र चक्रवाक ! मां भण कथय ! त्वया गोरोचना पीतरङ्गो लेपविशेषः, कुङ्कुमो रक्तः तद्वत् वर्णः यस्याः सा तादृशी पीतरक्तरङ्गा मधुवासरे वसन्तसमये क्रीडन्ती खेलन्ती सा धन्या मम प्रिया न दृष्टा किम् । दृष्टा चेत्कथय क्व सा इति ! ॥ ३६ ॥ “कोकश्चक्रश्चक्रवाक" इत्यमरः ॥
(चर्चरिकयोपसृत्य जानुभ्यां स्थित्वा)
रथाङ्गेति -नाम इति सम्भावनायाम् ! हे रथाङ्ग चक्रवाक ! रथाङ्गश्चक्रः तद्वत् पृथुलं वर्तुलं श्रोणिबिम्बं नितम्बमण्डलं यस्याः सा तया प्रियतमया वियुतो विरहितः अयं मनोरथानां शतैः अनेकाभिलाषाभिर्वृतो युतः रथी स्यन्दनवान् महारथो राजा त्वां पृच्छति-अतः अवश्यं त्वया झगिति प्रत्युत्तरं देयमिति भावः । रथीतिपदप्रदानेन माहात्म्यं बलवत्त्वं व्यज्यते विचलनाख्यं सन्ध्याङ्गञ्चोच्यते ।
अत्रापि पूर्ववत् यथा हंसस्य गतिरिव तस्या गतिरभूत् अतो राज्ञा हंसोऽपि पृष्टः । इह हि तस्याः श्रोणिदेशो रथाङ्गसदृश अभूदिति रथाङ्गं पृच्छति साम्यात् भ्रमः । अत्र पृच्छानाम नाट्यलक्षणम् । “अभ्यर्थना परैर्वाक्यैः पृच्छाऽर्थान्वेषणम् मतम्" ॥ रथाङ्गश्रोणिबिम्बया अत्र धर्मलुप्तोपमा । अनुष्टुब् वृत्तम् ॥ ३७ ॥