यस्य तमभिमुखापतितमभिमुखमागतमात्मानमेव । आत्मप्रतिबिम्बमेवेत्यर्थः । निरीक्ष्यान्यनागेन प्रतिगजेनाभियुक्तोऽभिद्रुत इवातितूर्णमपभीनिर्भीकः सन् क्रोधादधावत् । अहो इति मौढ्येन विस्मयः । तच्च युक्तं महेभस्येति भावः । अभियुक्त इवेत्युत्प्रेक्षायाः प्रतिगजभ्रान्तिनिबन्धनत्वाभान्तिमदुत्प्रेक्षयोरङ्गाङ्गि- भावेन संकरः॥३२॥
नादातुमन्यकरिमुक्तमदाम्बुतिक्तं
धूताङ्कुशेन न विहातुमपीच्छताम्भः ।
रुद्धे गजेन सरितः सरुषावतारे
रिक्तोदपात्रकरमास्त चिरं जनौघः ॥ ३३ ॥
नेति ॥ अन्यकरिणा प्रतिगजेन मुक्तेन मदाम्बुना तिक्तं सुरभि । 'कटुतिक्त- कषायास्तु सौरभ्येऽपि प्रकीर्तिताः' इति केशवः । अम्भ आदातुं ग्रहीतुं नेच्छता विहातुं त्यक्तुमपि नेच्छता अनिच्छता । क्रोधपिपासाभ्यामिति भावः । धूताङ्कुशेन सरुषा सक्रोधेन गजेन नगसरितोऽवतारे तीर्थे रुद्धे सति जनौघः रिक्तान्युदपा- त्राणि येषु ते करा यस्मिंस्तद्यथा तथा चिरमास्त अतिष्ठत् । 'आस उपवेशने' लङ्। 'एकहलादौ पूरयितव्येऽन्यतरस्याम्' (६।३।५९) इत्युदकशब्दस्योदादेशः ॥ ३३ ॥
पन्थानमाशु विजहीहि पुरः स्तनौ ते
पश्यन् प्रतिद्विरदकुम्भविशङ्किचेताः ।
स्तम्बेरमः परिणिनंसुरसावुपैति
षिङ्गैरगद्यत ससंभ्रममेव काचित् ॥३४॥
पन्थानमिति ॥ पन्थानमाशु विजहीहि । 'ओहाक त्यागे' लोटि सेेर्ह्यादेशः। 'आ च हौ' (६।४।११७) इति विकल्पादीकारादेशः । पुरोऽने ते स्तनौ पश्यन् प्रतिद्विरदस्य कुम्भौ विशङ्कत इति तद्विशङ्कि चेतो यस्य सः । कुम्भभ्रान्तिमानि- त्यर्थः । अत एव भ्रान्तिमदलंकारः । स्तम्बे तृणे रमत इति स्तम्बेरमः । 'इभः स्तम्बरमः पद्मी' इत्यमरः । 'स्तम्बकर्णयो रमिजपोः' (३।२।१३) इत्यच् प्रत्ययः । 'तत्पुरुषे कृति बहुलम्' (६।३।१४) इत्यलुक् । परिणन्तुं तिर्यक्प्रहर्तुमिच्छुः परिणिनंसुः । नमेः सन्नन्तादुप्रत्ययः । 'एकाच उपदेशेऽनुदात्तात्' (७।२।१०) इतीट्प्रतिषेधः । असावुपैति । पुरेति पाठे पुरोपैतीत्यन्वयः । उपैष्यतीत्यर्थः । 'यावत्पुरानिपातयोर्लट्' (३।३।४) इति भविष्यदर्थे लट् । षिङ्गैर्विटैः । 'षिङ्गः पाल्लविको विटः' इति कोशः । काचिदेवमुक्तरीत्या ससंभ्रमं ससत्वरमगद्यत गदिता ॥ ३४ ॥
कीर्णं शनैरनुकपोलमनेकपानां
हस्तैर्विगाढमदतापरुजः शमाय ।
आकर्णमुल्लसितमम्बु विकासिकाश-
नीकाशमाप समतां सितचामरस्य ॥ ३५ ॥