पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
शिशुपालवधे

 कीर्णमिति ॥ अनेकपानां द्विपानां विगाढः प्ररूढो यो मदेन तापः स एव रुक् रोगस्तस्या रुजः शमाय शनैर्मन्दं हस्तैरनुकपोलं कपोलयोः कीर्णं क्षिप्तम् । आकर्णं कर्णपर्यन्तम् । 'आमर्यादाभिविध्योः' (२।१।१३) इत्यव्ययीभावः । उल्लसितमुत्पतितं विकासि यत् काशं काशकुसुमं तेन सदृशं काशनीकाशम् । नित्य- समासत्वादस्वपदविग्रहः । अत एव 'स्युरुत्तरपदे त्वमी । निभसंकाशनीकाशप्रती- काशोपमादयः' इत्यमरः। अम्बु पानीयं सितचामरस्य समतां सादृश्यमाप । 'तुल्याथैः-' (२।३/७२) इत्यादिना षष्ठी । उपमालंकारः ॥ ३५ ॥

  गण्डूषमुज्झितवता पयसः सरोषं
   नागेन लब्धपरवारणमारुतेन ।
  अम्भोधिरोधसि पृथुप्रतिमानभाग-
   रुद्धोरुदन्तमुसलप्रसरं निपेते ॥ ३६॥

 गण्डूषमिति ॥ लब्धः परवारणस्य प्रतिगजस्य मारुतो मदगन्धवाहो येन तेन अत एव सरोषं यथा तथा पयसः पानीयस्य गण्डूषं मुखपूरणम् । मुखा- न्तर्गतं पय इत्यर्थः । गण्डूषो मुखपूरणः' इति हलायुधः । द्विलिङ्गत्वेऽपि पुंलिङ्गमेवाह वामनो लिङ्गाध्याहारावित्यत्र । उज्झितवता त्यक्तवता नागेन गजेन । 'मतगजो गजो नागः' इत्यमरः । अम्भोधिरोधसि सागरतीरे । 'दन्त- योरुभयोर्मध्यं प्रतिमानमिति स्मृतम्' । पृथुना प्रतिमानभागेन रुद्धः प्रतिबद्धः उरू दन्तौ मुसलाविव तयोः प्रसरः प्रसारो यस्मिन्कर्मणि तत् । 'अयोग्रो मुस- लोऽस्त्री स्यात्' इत्यमरः । निपेते निपतितम् । भावे लिट् । क्रोधवेगादलब्ध- रोधाः प्रहृत्य पारवश्यात् स्वयं चाधोमुखः पपातेत्यर्थः । क्रोधान्धाः किं न कुर्व- न्तीति भावः ॥ ३६॥

  दानं ददत्यपि जलैः सहसाधिरूढे
   को विद्यमानगतिरासितुमुत्सहेत ।
  यद्दन्तिनः कटकटाहतटान्मिमङ्क्षो-
   र्मङ्क्षदपाति परितः पटलैरलीनाम् ॥ ३७॥

 दानमिति ॥ दीयत इति दानं धनं मदश्च । 'दानं गजमदे त्यागे' इति विश्वः । तद्ददति वितरत्यपि । दातर्यपीत्यर्थः । सहसा अकस्मात् । स्वरादित्वाद- व्ययत्वमिति शाकटायनः । जलैर्जडैर्नीरैश्च । 'जलं गोकलले नीरे हीबेरे च जडे. ऽन्यवत्' इति विश्वः । अधिरूढे आक्रान्ते सति विद्यमानगतिः गत्यन्तरवान् सम- र्थश्च कः पुमानासितुं तत्र स्थातुमुत्सहेत । न कोऽपीत्यर्थः । 'शकधृष-' (३।४।६५) इत्यादिना तुमुन् । यसान्मिमङ्क्षोर्मङ्क्तुमिच्छोः । मज्जेः सन्नन्तादुप्रत्ययः । दन्तिनः कटो गण्डः स कटाहः खर्पर इव । 'कटाहः खर्परस्तुपः' इति वैजयन्ती ।

तस्य तटाप्रदेशादलीनां पटलैः परितो मङ्क्षु द्राक् । 'दाङ्मङ्क्षु सपदि द्रुतम्'