आरक्तराजिभिरियं कुसुमैनवकन्दली सलिलगर्भैः । |
आरक्तेति-इयं पुरो दृश्यमाना नवा नूतनोत्पन्ना कन्दली कदली सलिलं जलं गर्भे मध्यभागे येषां तैः अन्तर्गतजलैः आसमन्तात् रक्ता राजयो रेखा येषां तैः कुसुमैः तस्याः मम प्रियायाः कोपादन्तर्बाष्पे अविगलिताश्रुणी लोचने नयने स्मरयति स्मृतिपथमानयति । कोपनायास्तस्या नयने यदा अन्तर्बाष्पे भवतः तदा ते अन्तर्जलकदलीकुसुमैः सन्निभे भवतः अत एव राजा कुसुमानि तादृशानि विलोक्य नयने स्मरति ।
अनेन तस्या नयनयोः कोपकारणात् आरक्तत्वम् , कदलीकुसुमसदृशदीर्घत्वसुकुमारत्वकान्तत्वादिकं च ध्वन्यते । अत्र च स्मरणमलङ्कारः-यदाह पण्डितेन्द्रः-“सादृश्यज्ञानोद्बुद्धसंस्कारप्रयोज्यं स्मरणं स्मरणालङ्कारः" इति । अत्र कदलीकुसुमदर्शनोबुद्धसंस्कारजन्यतत्सदृशप्रियानयनस्सरणस्य सत्वात् तस्य च वाक्यार्थोपस्कारकबादलङ्कारत्व ।
"कन्दली भूकदल्यपि" इति शब्दार्णववचनेन कदली, तथा च मुक्तावली- कृतां मते "कलध्वनौ चापि तरौ मृगभेदेऽपि कन्दली" इति वाक्यात् शिलीन्ध्रापरपर्यायः कन्दलीनामा वृक्षविशेषः ।
इयमार्याजातिः ॥ १५ ॥
सा मम प्रिया इतः अनेन मार्गेण गता न वेति कथं नाम मया सूचयितव्या परिज्ञातव्या । यतः-परिज्ञानमाह-
पद्व्यामिति -यदा सा सुगात्री सुतनुः वसुमती महीं पद्भयां चरणाभ्यां स्पृशेत्तदा मेघैः अभिवृष्टा अतः आर्द्रतां नीताः सिकताः यासां तासु वनस्थलीषु अस्याः उर्वश्याः गुरुनितम्बतया श्रोणीनां गुरुत्वात् पश्चाद्भागे नता गाढानुप्रविष्टा प्रविष्टा अलककाङ्का रागयुता चारु सुन्दरी पदपङ्किरवश्यमेव दृश्येत ।
भावस्तु-प्रिया मे गुरुनितम्बिनी । वर्षया च भूमिः शिथिला । नितम्बानां पश्चात्स्थलात् चरणयोश्च पश्चाद्भागे भारविशेषत्वात् गाढतया शिथिलायां भूमौ अङ्कनं भविष्यति-तदा यदि सा चरणाभ्यां भूमिं स्पृशेत् तदा गुरुनितम्बिनीवात्तस्याः पार्ष्णिदेशस्य मेघाभिवर्षणशिथिलायां भूमौ निश्चयेन स्फुटतया लक्ष्यमाणस्य गाढमङ्कनं दृष्टिपथमवतरेत । तेन सा अनेनैव मार्गेण गतेति विश्रम्भणीयम् । स्थली अकृत्रिमा भूमिः।