(द्विपदिकया परिक्रम्यावलोक्य च सहर्षम्) उपलब्धमुपलक्षणं येन तस्याः कोपनाया मार्गोऽनुमीयते ।
हृतौष्ठरागैर्नयनोदविन्दुभिर्निमग्ननाभेर्निपतद्भिरङ्कितम् । |
"वसन्ततिलका वृत्तम्" ॥ १६ ॥<
पुनरपि द्विपदिकया विलोक्य सहर्षमाह-उपलब्धं ग्रामं उपलक्षणं चिह्नं मया येन तस्याः कोपनायाः मार्गः अनुमीयते ।
हृतौष्ठेति-निमग्ना गभीरा नाभिर्यस्याः सा तस्याः तथा च रुषा कोपेन भिन्नगतेः विसंधुलगतेः तस्याः प्रियायाः निक-झग्यो एव गिलदिन भने परिन्यस्तं रचन्तः यैस्तैः परम: अलकन्त्र नयनोदबिन्दुभिः अस्रबिन्दुभिः अङ्कितं चिह्नितं इदं शुकोदरश्यामं तत्सदृशरङ्गरञ्जितं स्तनांशुकम् कुचाच्छादनवस्त्रम् असंशयं च्युतं प्रतिभाति ।
कीरवद्धरिता तदीया कञ्चुकी रक्तबिन्दुभिः कर्करिता आसीत् । ओष्ठरागस्यापि च्युतत्वात् केचन बिन्दवो रक्ताः अत एव तदीयहरितकञ्चुकी रक्तबिन्दुभिरन्तरा कर्करिता प्रतिभाति । अनेन अनुमीयते सा अनेनैव मार्गेण गता भवेदिति । अनेन तस्याः कोपनत्वं विरहितत्वाच्च सशोकत्वं व्यज्यते । अत्रोपमालङ्कारः अनुमानालङ्कारेण सङ्कीर्णः । अर्थविलक्षणमिदं पद्यम् ।
प्रेयसीमुर्वशीमन्विष्यन् राजा दूरतः बालतृणसमाच्छादितं इन्द्रगोपकीटसनाथं स्थलं प्रेक्ष्य तत्स्थलमेव स्तनांशुकं परिकल्पयते । स्थलस्य हरितत्वात् स्तनांशुकस्यापि तादृशत्वयोगाद् भ्रान्तिः । तत्र च शोणितवर्णः इन्द्रगोपकीटाः क्वचिदुपविष्टा आसन् । इन्द्रगोपाः सदैव सङ्कुचिताः वर्तुलाकारेण वर्षासु शाद्वले उपविशन्तीति निसर्गः । तानिन्द्रगोपान् नवशाद्वले राजा एवं मनुते यथा ते हरितस्तनांशुके अस्रबिन्दव एव स्युः अस्रबिन्दुषु रक्तत्वं नयनाभ्यामधःपतनान्तरं ओष्ठे अश्रूणां स्थितिवशात् तत्र चालक्तकरागसम्मेदादुपकल्पितम् । ततश्चास्रबिन्दूनां अधःपातः स्तनांशुक एव । आशु स्खलने च अश्रूणां नायिकायाः भिन्नगतित्वस्य हेतुत्वम् अत एव भिन्नगतेरिति विशेषणपदस्वीकारः । परं च ओष्ठदेशादधःपतन्तो नयनोदबिन्दवः नाभिदेशे संलग्नाः नाभेश्च गभीरत्वात्तत्र बिन्दूनां सविशेषतया स्थितिः अत एव तेषां बिन्दूनां शोषणावधि तत्रस्थत्वात् रक्तबिन्दूनां स्तनांशुकेऽङ्कनं समञ्जसम् । अत एव निमग्ननाभेरिति विशेषणमत्र साभिप्रायम् । भिन्नगतौ च राज्ञि मानजन्यकोपावेशात् रुषेतिपदवाच्यस्य कोपस्य हेतुत्वं साधु । अत एवात्रोभयत्र काव्यलिङ्गमलङ्कारः सपरिकरः।
अत्र कोपावेशात् नायिकायाः नयनाभ्यां विगलन्तोऽश्रुबिन्दवः गतिभेदवेगादाशु अधःपतन्तः ओष्ठरागेण सम्भिन्नाः ततश्चाधःपतन्तो नाभौ निमग्नाः