सामग्री पर जाएँ

पृष्ठम्:श्रुतबोधः.djvu/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४
श्रुतबोधः


 अर्थः-सुष्ठु-शोभनं मुखमाननं यस्थातत्सम्बुद्धौ ! यत्र-वृत्तौ, प्राच्या:-प्रथम, पञ्च-पञ्च वर्णाः लघवा-ह्रस्वाः स्युः । ततः-तदनु, दशमान्तिक-एकादशं; तदनु-ततः, त्रिचतुर्दशौ-त्रयोदशचतुर्दशौ वर्णौ-अक्षरे ( लघुनी ) स्याताम् । ललित:-मनोहरः, आलापो-भाषणं यस्या- स्तत्सम्बुद्धौ ! पुनः - भूयः, उपान्त्यः-अन्त्यसमीपस्यः

[लघुःस्यात् । स्फुरन्ति - प्रकाशमानानि करयोः - हस्तयोः कङ्कणानि- यस्यास्तत्सम्बुद्धौ हेस्फुरत्करकङ्कणे रसै-षड्भिः वेदैश्चतुर्भिः, अश्वैः - सप्तभिः यतिः-विश्रामः स्यात् । सा-असौ हरिणी - एतदाख्या वृत्तिः इति - इत्थं, स्मृता-कथिता। च. अ. १७ ग०, न, स, म, र, स, ल, गु, यतिः ६, ४, ७, ॥।, ॥s, sss, SIS ||S, IS। ॥।३९॥

 भाषा-हे सुन्दर मुखवाली ! हे मधुर भाषण करने वाली हे चमकते हुए सुवर्ण के कङ्कण वाली ! जिस श्लोक में आदिके पांच अक्षर, ग्यारहवां,तेरहवां,चौदहवां, और सोलहवां ये अक्षर ह्स्व हो और ६, ४, ७, अक्षरों पर विराम हो उसे हरिणी छन्द कहते हैं ॥ ३९ ॥


यदा पूर्वो ह्रस्वः कमलनयने षष्ठकपरा-
स्ततो वर्णाः पञ्च प्रकृतिसुकुमाराङ्गि लघवः ।