पृष्ठम्:श्रुतबोधः.djvu/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५
संस्कृत तथा भाषाटीका सहितः


त्रयोन्ये चोपान्त्या सुतनु जघनाभोगसुभगे-
रसैरुदैर्यस्यां भवति विरतिः सा शिखरिणी ॥४०॥

 अर्थः-हे कमलनयने ! यदा पूर्वः (वर्णः) ह्रस्वः ( स्यात् ) ततः षष्ठकपराः पञ्च वर्णाः लघवः ( स्युः) हे प्रकृतिसुकुमाराङ्गि ! अन्ये च उपान्त्याः त्रयः (वर्णाः लघवः स्युः) हे सुतनु । हे जघनाभोगसुभगे ! यस्यां रसैः रुद्रैः विरतिः भवति सा शिखरिणी ( स्यात् ) ॥ ४०॥

 अर्थः-कमले-पद्म इव नयने नेत्रे यस्यास्तत्सम्बुद्धौ, यदा-यस्मिन् पद्य, पूर्व:-प्रथमः वर्णः, ह्रस्वः-लघुः स्यात्, तत:-पश्चात्, षष्ठकपराः-पष्ठाक्षरतोऽग्रे पञ्चवर्णाः-पञ्चाक्षराणि लघवः-ह्रस्वाः स्युः। प्रकृत्या-स्वभावेन सुकुमाराणि-कोमलानि अङ्गानि-शरीराणि यस्यास्तत्सम्बुद्धौ! अन्ये-इतरे च उपान्त्या-अन्त्यसमीपस्थाः त्रयः--चतुर्दश पञ्चदशषोडशाश्च वर्णाः लघवः स्युः हे सुतनु हेजघनाभोग सुभगे ! जघनयोः आभोगेन-पृथुत्वेन सुभगा-सुशोभना, सुष्ठु तनुर्यस्याः तत्सम्बुद्धौ ! यस्यां-वृत्तौ रसैः-पभिःरुद्रैः- एकादशभिः विरति:-यतिः भवति-जायते, सा-असौ शिख-