निपुणिका-भट्टिणि ! एदस्स एव्व अण्णेसणं वट्टदि । [देवि! एतस्य एवान्वेषणं वर्तते ।]
देवी-पेक्खामि । [प्रेक्षे ।]
{{bold|विदूषकः-भो! मिलाअमाणकेसरच्छविणा मोरपिच्छेण विप्पलद्धोम्हि । [भोः ! म्लायमानकेसरच्छविना मयूरपिच्छेन विप्रलब्धोऽस्मि]
राजा-सर्वथा हतोऽस्मि मन्दभाग्यः।
देवी-(सहसोपसृत्य ) अज्जउत्त! अलं आवेगेण । एदं एव्व तं भुज्जवत्तम् । [आर्यपुत्र ! अलमावेगेन । एतदेव तद्भूर्जपत्रम् । ]
राजा--(ससम्भ्रममात्मगतम् ) अये ! इयं देवी । (प्रकाशम् ) स्वागतं देव्यै ।
देवी-दुरागदं दाणिं संवुत्तम् । [ दुरागतमिदानी संवृत्तम् ।]
सुकुमारकुमारीभावपरिरक्षणानुरूपमाचरणाय तया निवेदितो मलयानिलः स्वसंसारावतरणश्रमकृतार्थतया सङ्गमय्य तस्यां मनोजवं मनोजजन्मानं मारुतिं प्रादुर्भावयामासेति पुरातनवचनसङ्गतिः ॥
श्लोकश्चायं शार्दूलविक्रीडितेन च्छन्दसा निबद्धः । लक्षणं तूक्तं प्रागेव ॥१९॥
निपुणिका-भर्त्रि ! एतस्यैव भूर्जपत्रस्यान्वेषणं वर्तते ।
देवी-प्रेक्षे-यद्यदन्यद् क्रियते।
विदूषकः :-म्लायमाना मलिनीकृता केसराणां कुसुमकिञ्जल्कानां छविः कान्तिस्तेन मयूराणां पिच्छेन विप्रलब्धोऽस्मि वञ्चितोऽस्मि । मयूरेण स्वपिच्छद्वारा अपहृतं भवेदिति शङ्का ।
राजा-सर्वथा मन्दभाग्यः दुर्भागी अहं हतोऽस्मि त्रासितोऽस्मि ।
देवी-(सहसाऽतर्कितमेवोपमृत्य)-आर्यपुत्र । आवेगेन शोकेन अलं, कृतं शोकेन-एतदेव तद्भूर्जपत्रम् । शोकेनालमित्यस्य हेतुः । आवेगेनेति “अलं योगे" तृतीया ।
राजा-(ससम्भ्रमम् सभयम्-आत्मगतमेव ) अये! इयं देवी एतस्मिन् प्रसङ्गे देवीदर्शनमेव भयहेतुः। (प्रकाशम्) स्वागतं देव्यै इति समुदाचारं विधत्ते ।
"सम्भ्रमः साध्वसेऽपि स्यादिति" कोषः।
देवी-राजानं उपहसति । इदानीं दुरागतं संवृत्तम् । मदागमनं असमीचीनं जातम् । इदं तु भवत्खेदकारित्वात् दुरागतमेव न तु स्वागतमिति भावः।