पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९३
द्वितीयोऽङ्कः।

 राजा-(जनान्तिकम् ) वयस्य ! किमत्र प्रतिविधानम् ।

 विदूषकः-(जनान्तिकम् ) लोत्तेण सूइदस्स कुंभिलअस्स अत्थि वा पडिवअणम् ? [लोप्त्रेण सूचितस्य कुम्भीरकस्य अस्ति वा प्रतिवचनम् ?]

 राजा-(अपवार्य) मूढ ! नायं परिहासकालः । (प्रकाशम् ) नेदं पत्रं मया मृग्यते । तत्खलु मन्त्रपत्रं यदन्वेषणाय ममायमारम्भः ।

 देवी-जुज्जइ अत्तणो सोहग्गं पच्छादेदुम् । [युज्यत आत्मनः सौभाग्यं प्रच्छादयितुम् ।]

 विदूषकः -भोदि ! तुवरेहि से भोअणम् । पित्तोवसमणेन सुत्थो होदु। [भवति! त्वरयस्वास्य भोजनम् , पित्तोपशमनेन स्वस्थो भवतु।]


 अत्र औशीनर्या पुरूरवसः उर्वशीविषयकानुरागोद्भेदनात्प्रत्यक्षनिष्ठुराभिधानं विहितम् , अतः इह वज्रं नाम प्रतिमुखसन्ध्यङ्गम् । यल्लक्षणं-"वज्रं प्रत्यक्षनिष्ठुर" मिति दशरूपके।

 राजा-(जनान्तिकम्-अपवार्य ) वयस्य माणवक ! किमत्र प्रतिविधानम् प्रतीकारः । इदानीं गोपायितुं स्वरहस्यं किं नाम कर्तव्यमिति परामृशति ।

 विदूषकः-(जनान्तिकम्-अन्यैरश्रूयमाणम् ) लोप्त्रेण स्तेयेन चोरितेन वस्तुना सूचितस्य कुम्भीरकस्य चोरस्य किमपि प्रतिवचनम् अस्ति किम्-नास्तीति भावः । अत्रार्थापत्तिः, चोरसमीपे यदि चोरितं धनं लभ्येत चेत् स तु चोर एव निश्चीयते तथैव स्वमपि भूर्जपत्रेण विज्ञापितोऽधुना कथं प्रतिविधानं कर्तुं पारयिष्यसीति भावः।

 राजा-(अपवार्य ) मूढ ! नायं परिहासकालः-सत्यमेव त्वया किमपि प्रतिवचनं दर्शनीयम् आसीत् । (प्रकाशम् ) देवि ! इदं भूर्जपत्रं मया न मृग्यते किन्तु मन्त्रपत्रं राजकीयकार्यपत्रं गवेषयितुं ममायं आरम्भः प्रयत्नः । नाहं मार्गयामि भूर्जपत्रमेनं किन्तु राजपत्रं तत् इति सङ्गोपयति रहस्यम् । अत्र दोषप्रच्छादनात् “नर्मद्युतिर्नाम" सन्थ्यङ्गम् ।

 देवी-युज्यते -आत्मनः सौभाग्यं प्रच्छादयितुम् एतादृक्कथनं खकीयशुद्धतां निरपराधित्वं च प्रदर्शयितुं युक्तमेव ।

 विदूषकः-भवति देवि! भवतु यत्किमपि-अस्य राज्ञः भोजनमिष्टं त्वरयस्व आशु देहि । अस्यैव पत्रस्य कृते व्याकुलीभूयतेऽनेन अतः देहि पत्रमेनमिति भावः । अयं च पित्तोपशमनेन खस्थो भवतु । दत्ते च भोजने यथा पित्तं शाम्यति तथैव प्रदानेनास्य पत्रस्य सुस्थो भविष्यति राजा इति सारः । अत्र चान्योक्तिः । भोजनमिषेण यथा पित्तस्य तथैव पत्रस्यैव शामकत्वं प्रतिपादितम् ।