सामग्री पर जाएँ

पृष्ठम्:श्रुतबोधः.djvu/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८
श्रुतबोधः


आत्मम्बुद्धौ हे कम्बुग्रीवे-कम्बुकण्ठि । यत्र-यस्मिन्, पद्ये,पष्ठः वर्ण:-षष्ठमक्षरम्, तदेव-इत्थमेव,अष्टमान्त्यः-नवमः,हस्वः- लघुर्जायते-भवति, हे तन्वि-हे कृशाङ्गि। ( तथा) वेदैश्चतुर्भिः तुरङ्गैः:-सप्तभिश्च विश्रामः-यतिः स्यात्-भवेत्, छान्दसीया:-छन्दःशास्त्रज्ञाः तां -अमुम्, शालिनी-तन्नामकं छन्दः भाषन्ते-ब्रुवते । शालिनी च० अ० १ १ ग० म, त त, गु, गु, यतिः ४,७,sss, ssI,ssI,s, s, ॥१७॥


 भाषा-हे शंख के समान ग्रीवावाली ! हे सूक्ष्माङ्गि! जिस छन्द में छठवां और अष्टमांत्य अर्थात् नवम अक्षर लघु हो तथा चौथे और सांतवे अक्षर पर विराम होतो छन्द के ज्ञाता उसको शालिनी छन्द कहते हैं ॥ १७ ॥

मन्दाक्रान्ता छन्दः।

 चत्वारःप्राक् सुतनु गुरवो द्वादशैकादशौचे-
 न्मुग्धे वर्णौ तदनु कुमुदामोदिनि द्वादशान्त्यौ।।
 तद्वच्चान्त्यौ युगरसहयैर्यत्र कान्ते विरामो
 मन्दाक्रान्तां प्रवरकवयस्तन्वि तां सङ्गिरन्ते ॥१८॥

 अन्वयः-हे सुतनु प्राक चत्वारः (वर्णाः) द्वादशैकादशौ वर्णों च गुरवः (स्यु:) हे मुग्धे, हे