सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/११५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७
प्रथमोऽङ्कः ।

तदेतदुन्मीलय चक्षुरायतं
 निशावसाने नलिनीव पङ्कजम् ॥६॥

 चित्रलेखा - अम्महे ! कहं उस्मसिदमेत्तसंभाविदजीविदा अज्ज वि एसा सण्णं ण पडिवज्जदि ? [कथमुच्छसितमात्रसम्भावितजीविता अद्यापि एषा संज्ञां न प्रतिपद्यते ?]

 राजा - बलवदन्त्र ते सखी त्रस्ता । तथाहि -

मन्दारकुसुमदाम्ना गुरुरस्याः सूच्यन्ते हृदयकम्पः ।
मुहुरुच्छ्वसता मध्ये परिणाहवतोः पयोधरयोः ॥ ७ ॥


येन केनापि धार्य भवति किन्तु प्रशस्तं वज्रं यस्य स इति वज्री इन्द्रः यथाे प्रशस्तो हनुरस्यास्तीति हनुमान् इत्यत्र प्राशस्त्यमत्वर्थीयः प्रत्ययः । अत्रोपमालङ्कारः । यथा रात्रिसमाप्तौ नलिनी पङ्कजमुद्धाटयति एवमेव त्वं भये गते सति चक्षुरुद्धाटयेति सादृश्यगतचमत्कृतिसद्भावादुपमा । भयस्य निशयोपमा प्रदानेन कृष्णपक्षीयघोरान्धकारतुल्योग्रता सूचिता । नायिकायाः नलिन्या सह सादृश्यप्रदर्शनेन अत्यन्तसौकुमार्यं कमनीयता च व्यज्यते । चक्षुषः पङ्कजोपमया सौन्दर्यातिशयावहत्वं गम्यते । चक्षुषः आयतत्वविशेषणप्रदानेन भाग्यवत्ता अमानुषीत्वमलौकिकलावण्यं च ध्वनितम् । अत्र द्वितीयचरणपदार्थस्य भयनिवृत्तौ हेतुत्वात् काव्यलिङ्गं च अलङ्कारः “हेतोर्वाक्यपदार्थते"ति लक्षणम् । पङ्क्जपदे योगरूढवृत्तिः। महिमति पुंल्लिङ्गं पदम् । पद्यमिदं वंशस्थावृत्तेन निबद्धम् , यल्लक्षणं तु "वंशस्था जतौ ज्रौ” (पिङ्गल० ६।२९): यस्य पादे जकारतकारजकाररेफाः भवन्ति तद्वृत्तं वंशस्थाभिधम् ॥ ६ ॥

 चित्रलेखा - अम्महे इति ।}} आश्चर्यव्यञ्जकमिदमव्ययम् । कथमुच्छ्वसितमात्रेण केवलश्वासोच्छ्वासमात्रेणैव संभावितं निश्चितं जीवितं प्राणाः यस्याः सा एषा प्रियसखी उर्वशी अद्यापि अधुनापि संज्ञां चेतनतां न प्रतिपद्यते प्राप्नोति । इयं जीवतीति केवलप्राणवायुसंचारेण अनुमीयते-एतादृशीमवस्थां प्राप्तेयमधुनापि पुनर्लब्धसंज्ञा न भवतीति व्यग्रता- इति सारः । कथमिति तर्कः व्याकुलत्वं गमयति ।

 राजा - हे चित्रलेखे ! अत्र इयं ते सखी उर्वशी बलवत् त्रस्ता भृशं भीतेत्यर्थः । बलवदिति क्रियाविशेषणं त्रस्तेतिपदेनान्वेति । तथाहि कुतः-कारणमाह मन्दारेति - परिणाहवतोः विशालयोः पयोधरयोः स्तनयोर्मध्ये मुहुर्वारवारं उच्छ्वसता उत्पतता मन्दारकुसुमदाम्ना मन्दारपुष्पमालया अस्या उर्वश्या गुरुरधिको हृदयकम्पः सूच्यते परिज्ञाप्यते । तया मन्दारपुष्पाणामेका रमणीया माला धृता आसीत् । सा च यदा श्वासवेगो उपरि चलति, बहिर्वा निर्गच्छति यदा वायुस्तदा उच्छ्वसति पश्चाच्चाधःपतति श्वासग्रहणवेलायाम्, अनेन कियानस्याः हृदयकम्पोऽस्तीति परिज्ञायते । अत्रानुमानालङ्कारः । मन्दारस्तु पञ्चविधकल्प-