पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ७०-७५]
१६९
वधूवरयोरन्योन्येच्छापूर्त्यानन्दः

नभ्समासः। अमन्नवर्जम् , मन्त्रान्न वर्जयित्वेत्यर्थः । 'द्वितीयायां च' (पा. ३/४/५३) इति णमुल्प्रत्यय इत्याह न्यासकार:-'अनुदात्तं पदमेकवर्जम्' (पा. ६।१/१५८) इत्यत्र । प्रत्यग्रहीत्स्वीकृतवान् ॥ ७२ ॥

 दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोध1दक्षैः ।
 वेला2समीपं स्फुटफेनराजिर्नवैरुदन्वानिव चन्द्रपादैः ।। ७३ ।।

 दुकूलेति ॥ अथ दुकूलवासाः, दुकूलं वसान इत्यर्थः । स हरो विनीतैर- नुद्धतैरवरोधेषु ये दक्षास्तैरवरोधदक्षैर्वधूसमीपं निन्ये नीतः । कथमिव? स्फुटा फेनानां राजिर्यस्य स उदकमस्यास्तीत्युदन्वान् समुद्रः । 'उदन्वानुदधौ च' (पा. ८।२।१३) इति निपातनात्साधु । नवैरचिरोदितैश्चन्द्रकिरणैर्वेलासमीप- मिव ॥७३॥

 तया 3प्रवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्या ।
 प्रसन्नचेतःसलिलः शिवोऽभूत्संसृज्यमानः शरदेव लोकः।।७४॥

 तयेति ॥ आननं चन्द्र इवेत्युपमितसमासः । प्रवृद्धा आननचन्द्रस्य कान्तिर्यस्यास्तया तथोक्तया तया कुमार्या, शरदा लोक इव संसृज्यमानः संगच्छमानः शिवश्चक्षूंषि कुमुदानीव तानि प्रफुल्लानि यस्य स तथोक्तः । चेतः सलिलमिव तत्प्रसन्नं यस्य स तथोक्तः प्रसन्नचेतःसलिलोऽभूत् । शरल्लोकयोरपि यथोचितं विशेषणानि योज्यानि ॥ ७४ ॥

 तयोः समापत्तिषु कातराणि किंचिद्यवस्थापितसंहृतानि ।
 ह्रीयत्रणां4तत्क्षणमन्वभूवन्नन्योन्यलोलानि विलोचनानि।।७५।।

 तयोरिति ॥ तयोर्वधूवरयोः समापत्तिषु यदृच्छया संगतिषु कातराणि चकितानि । 'अधीरे कातरः' इत्यमरः, द्रष्टुमसमर्थानीति भावः । किंचिदी- षव्ध्यवस्थापितानि स्थिरीकृतानि पश्चात्संहृतानि निवर्तितानि चेति व्यवस्थापित- संहृतानि । 'पूर्वकाल-' (पा. २।१।४९) इत्यादिना तत्पुरुषः । अन्योन्यस्मिंल्लो- लानि सतृष्णानि । 'लोलश्चलसतृष्णयोः' इत्यमरः । विलोचनानि दृष्टयस्तत्क्षणं तस्मिन्क्षणे ह्रीयन्त्रणां ह्रिया निमित्तेन संकोचमन्वभूवन् ॥ ७५ ॥

पाठा०-१ पक्षैः. २ सकाशम्. ३ विवृद्ध. ४ आनशिरे मुहूर्तम् ; आनशिरे

मनोज्ञाम्.