पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८
[ सर्गः ७
कुमारसंभवे

मुष्टयो यस्मिंस्तं तथोक्तम् । तत्रावकीर्णा आचारलाजा अन्तराल एवाङ्गदैश्चूर्णपेषं पिष्यन्त इति पुरंध्रीजनसंबन्धातिशयोक्तिः । हिमालयस्य हिमवत आलयं भवनमाससाद प्राप॥ ६९॥

 तंत्रावतीर्याच्युतदत्तहस्तः शरद्धनाद्दीधितिमानिवोक्ष्णः ।
 क्रान्तानि पूर्व कमलासनेन 2कक्ष्यान्तराण्यद्रिपतेर्विवेश ॥७॥

 तत्रेति ॥ तत्र हिमवदालयेऽच्युतेन विष्णुना दत्तहस्तो वितीर्णहस्तावलम्बः सन् शरद्धनाच्छरन्मेषात् । शरद्विशेषणान्मेघस्य शुभ्रत्वं गम्यते । दीधितिमान् सूर्य इवोक्ष्णो वृषादवतीर्य कमलासनेन पूर्वमग्रे क्रान्तानि प्रविष्टान्यद्रिपतेः कक्ष्यान्तराणि गेहप्रकोष्ठान्तराणि विवेश। 'कक्ष्या कच्छे वस्त्रायां काङ्क्ष्यां गेहप्रकोष्टके' इति यादवः॥ ७० ॥

 तमन्वगिन्द्रप्रमुखाश्च देवाः सप्तर्षिपूर्वाः परमर्पयश्च ।
 गणाश्च गिर्यालयम3भ्यगच्छन्प्रशस्तमारम्भमिवोत्तमार्थाः।।७।।

 तमिति ॥ तमीश्वरमन्वगनुपदम् । अव्ययमेतत् । 'अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्' इत्यमरः । इन्द्रप्रमुखा देवाश्च सप्तर्षयः पूर्वे येषां ते सप्तर्षि- पूर्वाः । 'न बहुव्रीहौ' (पा. १।१।२९) इति सर्वनामसंज्ञाप्रतिषेधः । परमर्षयः सनकादिमहर्षयश्च । 'सन्महत्परमोत्कृष्टाः पूज्यमानैः' (पा. २/१।६१) इति तत्पुरुषः । गणाः प्रमथाश्चोत्तमार्था महाप्रयोजनानि प्रशस्तं प्रकृष्टम् , अमोघ- मित्यर्थः । आरभ्यत इत्यारम्भ उपायस्तमिव गिर्यालयं हिमवन्मन्दिरमभ्य- प्राविशन्नित्यर्थः ॥७॥

 तत्रेश्वरो विष्टरभाग्यथावत्सरत्नमर्घ्यं मधुमच्च गव्यम् ।
 नवे दुकूले च 4नगोपनीतं प्रत्यग्रहीत्सर्वममत्र5वर्जम् ।। ७२ ॥

 तत्रेति ॥ तत्र हिमवदालय ईश्वरो विष्टरभागासनगतः, उपविष्ट इत्यर्थः । यथावद्यथार्हम् , विधिवदित्यर्थः । सरत्नं रत्नसहितमर्घ्य॑मर्घार्थं जलम् । मधु क्षौद्रमस्मिन्नस्तीति मधुमत् । गवि भवं गव्यं दधि च, मधुपर्कमित्यर्थः । 'दधिमधुनी सर्पिर्वा मध्वलाभे' (१।२४) इत्याश्वलायनगृह्यसूत्रात् । नवे दुकूले चेति सर्व नगोपनीतं हिमवदानीतमादिकं मन्त्रान्वर्जयित्वा मन्त्रवर्जम् । ततो

पाठा०-१ ततः.२ कक्षान्तराणि. ३ अन्वगच्छन्. ४ नगोपनीते. ५ वन्ध्यम्.

गच्छन्,