पुटमेतत् सुपुष्टितम्
४६
ऋतुसंहारे
याणां प्रेयसीनामसितानां कृष्णानां नयनानां नेत्राणां लक्ष्मीं शोभाम् । 'कृष्णे नीलासितश्यामकालश्यामलमेचकाः' इत्यमरः । 'लोचनं नयनं नेत्रम्' इत्यमरः । उत्पलेषु कमलेषु क्वणिता क्वणन्ती या कनककाञ्ची सुवर्णरशना तां मत्तहंसस्वनेषून्मत्तमरालशब्देष्वधरस्योष्ठस्य रुचिरा सुन्दरा या शोभा तां बन्धुजीवे बन्धूककुसुमे लक्षयित्वा दृष्ट्वा भ्रान्तचित्तः सन्रोदिति । रोदनं करोतीत्यर्थः॥
स्त्रीणामिति ॥ सुभगा सुन्दरा या शरदागमस्य श्रीः शोभा। शशाङ्कस्य चन्द्रस्य लक्ष्मीं शोभां स्त्रीणां सुन्दरीणां वदनेषु मुखेषु । कामं रमणीयं हंसवचनं मरालविरुतं च मणिनूपुरेषु मणिखचितमञ्जीरेषु । बन्धूकस्य बन्धूककुसुमस्य कान्तिं च मनोहरेषु सुन्दरेष्वधरेषु विहाय त्यक्त्वा क्वापि कुत्रचिदपि प्रयाति गच्छतीत्यर्थः । एतेन हेमन्तागमः सूचितः । वसन्ततिलकावृत्तम्।।