पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५
तृतीयः सर्गः ।

तत्तथोक्तम् । निर्मलमित्यर्थः । धरित्री क्षितिः । 'धरा धरित्री धरणिः क्षोणी ज्या काश्यपी क्षितिः' इत्यमरः । श्यानपङ्का शुष्कपङ्का व्योमाकाशं विमला निर्मलाः किरणा मयूखा यस्य तादृशश्चन्द्रो यत्र तत्तथोक्तम् । 'किरणोस्रमयूखांशु-' इत्यमरः । ताराभिर्नक्षत्रैर्विचित्रं सुन्दरमित्यर्थः । 'नक्षत्रमृक्षंभं तारा तारकाप्युडु वा स्त्रियाम्' इत्यमरः ॥

 दिवसकरमयूखैर्बोध्यमानं प्रभाते
  वरयुवतिमुखाभं पङ्कजं जृम्भतेऽद्य ।
 कुमुदमपि गतेऽस्तं ली[१]यते च[२]न्द्रबिम्बे
  हसितमिव वधूनां प्रोषितेषु प्रियेषु ॥२३॥

 दिवसेति ॥प्रभाते प्रातःकाले दिवसकरस्य सूर्यस्य मयूखैः किरणैर्बोध्यमानं विकाश्यमानमित्यर्थः । 'स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः' इत्यमरः । पङ्कजं कमलमद्येदानीं जुभते शोभते । कुमुदं कैरवमपि चन्द्रबिम्बेऽस्तमस्ताचलं गते प्राप्ते सति प्रोषितेषु विदेशगतेषु प्रियेषु कान्तेषु वधूनां रमणीनां हसितमिव लीयते । क्षीणं भवतीत्यर्थः ॥

 असितनयनल[३]क्ष्मीं लक्षयित्वोत्पलेषु
  क्वणितकनककाञ्चीं मत्तहंस[४]स्वनेषु ।
 अधररुचिरशोभां बन्धुजीवे प्रि[५]याणां
  पथिकजन इदानीं रोदिति भ्रा[६]न्तचित्तः ॥२४

 असितेति ॥ पथिकजनः पान्थजन इदानीं शरत्काले प्रि-


  1. 'म्लायते'
  2. 'चन्द्रविम्बम्'
  3. 'कान्तिम्'
  4. 'हंसी'
  5. 'प्रियायाः'
  6. 'भ्रान्तचेतः'.