सामग्री पर जाएँ

पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७
तृतीयः सर्गः ।

लिनी तटिनी हादिनी धुनी' इत्यमरः । परितः समन्ततो हंसानां मरालानां विरुतैः शब्दैः । 'तिरश्चां वाशितं रुतम्' इत्यमरः । जनस्य लोकस्य प्रीतिं कुर्वन्ति जनयन्तीत्यर्थः।।

 नेत्रोत्सवो हृदयहारिमरीचिमाल:
  प्रल्हादकः शिशिरसीकरवारिवषीं ।
 पत्युर्वियोगविषदिग्धशरक्षतानां
  चन्द्रो दहत्य1तितरां तनुमङ्गनानाम् ॥ ९ ॥

 नेत्रोत्सव इति ॥ नेत्राणां लोचनानामुत्सवोहर्षजनकः । 'लोचनं नयनं नेत्रम्' इत्यमरः । हृदयहारिणी मरीचिमाला किरणपङ्क्तिर्यस्य स तथोक्तः । प्रकर्षेण ह्लादको हर्षजनकः । शिशिरं शीतलं सीकराणां वारि वारिकणं वर्षति स तथोक्तश्चंद्रः सुधाकरः पत्युः प्रियस्य वियोगो विरह एव विषदिग्धशरो बाणस्तेन क्षता व्रणितास्तासां तथोक्तानामङ्गनानां विरहिणीनां तनुं शरीरमतितरामत्यन्तं दहति संतापयतीत्यर्थः॥

 आकम्पयन्फलभरानतशालिजाला-
  नानर्तयं2स्तरुवरान्कुसुमावनम्रान् ।
 उ3त्फुल्लपङ्कजवनां नलिनीं विधुन्व-
  न्यूनां म4नश्चलयति प्रसभं नभस्वान् ॥१०॥

 आकम्पयन्निति ॥ फलानां भरेण भारेणानता नम्रा ये शालिजालाः शालिसमूहास्तानाकम्पयन् । कुसुमावनम्रांस्तरुवरान्वृक्षश्रेष्ठानानर्तयन् । एतेन पवने मान्द्यमावेदितम् ।

१ 'अनुदिनम्।' २ 'तरुवरान्', 'कुरुबकान्.' ३ 'प्रोत्फुल्ल.' ४ 'स्खलयति'; 'मदयति.'