पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६
ऋतुसंहारे

'नक्षत्रमृक्षं भं तारा' इत्यमरः । उद्वहन्ती दधती । मेधैः कृत्वा योऽवरोधो व्यवधानं तस्मात्परिमुक्तो यः शशाङ्कश्चन्द्रः स एव वक्रं वदनं यस्याः सा । पक्षे मेघ इव योऽवरोधो वधूटिवयोऽवलम्बनीयो मुखवसनाच्छादनव्यवहारस्ततः परिमुक्तं तन्नियमानधीनं शशाङ्कमिव चन्द्रमिव वक्त्रं मुखं यस्याः सा । अमलं निर्मलं ज्योत्स्नैव दुकूलं वसनं दधाना परिधानं कृतवती सा । पक्षे ज्योत्स्नेवामलं दुकूलं दधाना सेति । 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । रजनी यामिनी । 'रजनी यामिनी तमी' इत्यमरः । प्रमदा बाला चानुदिनं प्रतिदिनं वृद्धिं प्रयाति गच्छतीत्यर्थः ॥

 कारण्डवाननविघट्टितवीचिमालाः
  कादम्बसारसच1याकुलतीरदेशाः ।
 कुर्वन्ति हंसविरुतैः परितो जनस्य
  प्रीतिं स2रोरुहरजोरुणितास्तटिन्यः॥८॥

 कारण्डवेति ॥ कारण्डवानां पक्षिविशेषाणामाननैर्वदनैर्विघट्टिता वीचिमालास्तरङ्गपङ्क्तयो यासु तास्तथोक्ताः । 'भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिः' इत्यमरः । कादम्बानां कलहंसानां सारसानां पुष्कराह्वानां चयेन समुदायेनाकुलो व्याकुलस्तीरदेशो यासां तास्तथोक्ताः । 'कादम्बः कलहंसः स्यात्' इत्यमरः । 'पुष्कराह्वस्तु सारसः' इत्यमरः । सरोरुहाणां कमलानां रजोभी रेणुभिररुणिता आरक्ताः । 'परागः सुमनोरजः' इत्यमरः । तटिन्यस्तरङ्गिण्यः । 'तरङ्गिणी शैव‌-

१ 'कुलाकुल.'२ 'सरोरुहरजोरुणिताश्च नद्यः 'परां कमलरेणुवृतास्तटिन्यः..