पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५
तृतीयः सर्गः ।

च्छादिता भूमिभागा येषां ते तथोक्ता वप्राः प्राकाराश्च ।। 'स्याच्चयो वप्रमस्त्रियाम् । प्राकारो वरणः शालः' इत्यमरः। भुवि कस्य यूनो मनो न प्रोत्कण्ठयन्ति प्रोत्कर्षणेन नोत्कण्ठयन्ति । अपि तु सर्वस्यापीति विभक्तिविपरिणामेनान्वयः॥

 मन्दानिलाकुलितचा1रुतराग्रशाखः
  पुष्पोद्गमप्रचयकोमलपल्लवाग्रः ।
 मत्तद्विरेफपरिपीतमधुप्रसेक-
  श्चित्तं विदारयति कस्य न कोविदारः॥६॥

 मन्देति ॥ मन्देन मन्थरेणानिलेन पवनेनाकुलिताश्चारुतरा अतिसुन्दरा अग्रशाखा यस्य तथोक्तः । पुष्पोद्गमस्य कुसुमप्रादुर्भावस्य प्रचयेनाधिक्येन कोमलानि मृदूनि पल्लवाग्राणि यस्य स तथोक्तः । मत्तद्विरेफैरुन्मत्तभ्रमरैः परिपीतो मधुप्रसेको मकरन्दप्रस्रवो यस्य स तथोक्तः कोविदारश्चमरिकवृक्षः। 'कोविदारे चमरिकः कुद्दालो युगपत्रकः ।' इत्यमरः । कस्य चित्तं न विदारयति । अपि तु सर्वस्यापि विदीर्णं करोतीत्यर्थः ॥

 तारागणप्रवरभूषणमुद्वहन्ती
  मेधावरोधपरिमुक्तशशाङ्कवक्त्रा।
 ज्योत्स्नादुकूलममलं रजनी दधाना
  वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥७॥

 तारागणेति ॥ ताराणां नक्षत्राणां गणः समुदाय एव प्रवरमुत्तमं भूषणम् । पक्षे तारागण इव प्रवरं भूषणम् ।

१'चारुमनोज्ञ, 'चारुविशाल.' २ 'मेघोपरोध.'