सामग्री पर जाएँ

पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७
द्वितीयः सर्गः ।

इत्यमरः । मालाः स्रजः शिरसि मूर्धनि ककुभद्रुमोऽर्जुनवृक्षस्तस्य मञ्जरीभिः कलिकाभिरिच्छयानुकूलं यथा भवति तथा रचितान्कृतानवतंसा एवावतंसकास्तान्कर्णान्तरेषु कर्णोपरिभागेषु बिभ्रति दधतीत्यर्थः । वसन्ततिलका वृत्तमेतत् । तदुक्तम् –'उक्ता वसन्ततिलका तभजा जगौ गः' इति ॥

 कालागुरुप्रचुरचन्दनचर्चि1ताङ्गयः
  पुष्पावतंससुरभीकृतकेशपाशाः।
 श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे
  शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः ॥२१॥

 कालागुर्विति ॥ कालागुरुः कृष्णागुरुः स प्रचुरो वहुलो यस्मिंस्तादृशं यच्चन्दनं तेन चर्चितं लिप्तमङ्गं शरीरं यासां तास्तथोक्ताः । पुष्पावतंसेन कुसुमकर्णपूरेण सुरभीकृतः सुगन्धीकृतः केशपाशः कुन्तलसमूहो यासां तास्तथोक्ता नार्यः स्त्रियो जलमुचां घनानां ध्वनिं गर्जनं श्रुत्वाकर्ण्य त्वरितं शीघ्रं प्रदोषे रजनीमुखे गुरुगृहाच्छ्वशुरगृहं परित्यज्य शय्यागृहं प्रविशन्तीत्यर्थः ॥

 कुवलयदलनीलैरुन्नतैस्तोय2नम्रै-
  र्मृदुपवनविधूतैर्मन्दमन्दं चलद्भिः।
 अपहृतमिव चेतस्तोयदैः सेन्द्रचापैः
  पथिकजनवधूनां त4द्वियोगाकुलानाम् ॥२२॥

 कुवलयेति ॥ कुवलयस्य नीलोल्पलस्य दलं पत्रमिव

१ 'चर्चिताङ्गाः'. २ 'स्तोकनम्रैः '. ३ 'तोयनम्रैः'. ४ 'तद्वियोगक्षतानाम्'.