समुद्गतेति ॥ समुद्गतो निर्गतो यः खेदो घर्मस्तेन चिता व्याप्ता अङ्गसंधयो बाहुमूलादयो यासां तास्तथोक्ताः सयौवनास्तारुण्यसहिता उन्नतस्तना उच्चकुचाः प्रमदाः स्त्रियः सांप्रतमिदानीं गुरूणि जडानि वासांसि वस्त्राणि विमुच्य दूरीकृत्य स्तनेषु कुचेषु तनु सूक्ष्ममंशुकं वासः कञ्चुक्यादि निवेशयन्ति स्थापयन्तीत्यर्थः ।।
सचन्दनाम्बुव्यजनोद्भवानिलैः
सहारयष्टिस्तनमण्डला1र्पणैः।
सवल्लकीकाकलिगीतनिस्वनै-
र्विबोध्यते सुप्त इवाद्य मन्मथः॥ ८॥
सेति। चन्दनाम्बुना चन्दनजलेन । चन्दनद्रवेणेति यावत्। सहितं युक्तं यव्द्यजनं तदुद्भवास्तदुत्पन्ना येऽनिला वायवस्तैः । हारयष्टया कुसुममालया सहितानि युक्तानि यानि स्तनमण्डलानि कुचमण्डलानि तेषामर्पणैः। वल्लक्या वीणया सहिताश्च ते काकलिनः सूक्ष्मकलाश्च ते गीतनिस्वना गाननिनादाश्च तैः। 'वीणा तु वल्लकी' इत्यमरः। 'काकली तु कले सूक्ष्मे' इत्यमरः । 'गीतं गानमिमे समे' इत्यमरः । अद्य मन्मथः कामः सुप्त इव निद्रित इव । राजेवेत्यर्थः । विबोध्यत उद्बुध्यते ।
सितेषु हर्म्येषु निशासु योषितां
सुखप्रसुप्तानि मुखानि चन्द्रमाः।
विलोक्य नूनं भृशमुत्सुकश्चिरं
निशाक्षये याति ह्रियेव4 पाण्डुताम् ॥ ९॥
सितेष्विति ॥ चन्द्रमा निशासु रात्रिषु सितेषु धवलेषु
१. 'अर्पितैः.' २.'प्रबुध्यते', 'प्रबोध्यते.' ३. 'निर्यन्त्रणम्.' ४. 'एव.'