अत इति ॥ यतोऽहमेव शतक्रतुरतस्त्वदीयस्य पितुरयं शततमोऽश्वः कपिलानुकारिणा कपिलमुनितुल्येन मयापहारितोऽपहृतः ॥ अपहारित इति स्वार्थे णिच् ॥ तवात्राश्वे प्रयत्नेनालम् । प्रयत्नो माकारीत्यर्थः ॥ निषेध्यस्य निषेधं प्रति करणत्वात्तृतीया ॥ सगरस्य राज्ञः संततेः संतानस्य पदव्यां पदं मा निधा न निधेहि ॥ निपूर्वाद्धाधातोर्लुङ् । न माङयोगे" इत्याडागमप्रतिषेधः । महदास्कन्दनं ते विनाशमूलं भवेदिवि भावः ॥
तत इति ॥ ततस्तुरगस्य रक्षिता रघुः प्रहस्य प्रहासं कृत्वा । अपभयो निर्भीकः सन् । पुनः पुरंदरं बभाषे ॥ किमिति-हे देवेन्द्र। यद्येषोऽश्वामोचनरूपस्ते तव सर्गो निश्चयः ॥“ सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु” इत्यमरः ॥ तर्हि शस्त्रं गृहाण ॥ भवान्रघुं मामनिर्जित्य । कृतमनेनेति कृती। कृतकृत्यो न खलु ॥ "इष्टादिभ्यश्च" इतीनिप्रत्ययः ॥ रघुमित्यनेनात्मनो दुर्जयत्वं सूचितम् ॥
स एवमुक्ता मघवन्तमुन्मुखः करिष्यमाणः सशरं शरासनम् ।
अतिष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः ॥५२॥
स इति ॥ स रघुरुन्मुखः सन् । मघवन्तमिन्द्रमेवमुक्त्वा शरासनं चापं सशरं करिष्यमाणः॥ आलीढेनालीढाख्येन स्थानकभेदेन विशेषशोभिनातिशयशोभिना वपुःप्रकर्षेण देहौन्नत्येन विडम्बितेश्वरोऽनुसृतपिनाकी सन् । अतिष्ठत् ॥ आलीढलक्षणमाह यादव:--- "स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्रियाम् । त्रिवितस्त्यन्तरौ पादौ मण्डलं तोरणाकृति । अन्वर्थं स्यात्समपदमालीढं तु ततोऽग्रतः। दक्षिणे वाममाकुञ्च्य प्रत्यालीढविपर्ययः" इति ॥
रघोरवष्टम्भमयेन पत्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः ।
नवाम्बुदानीकमुहूर्तलाञ्छने धनुष्यमोघं समधत्त सा[७]यकम् ॥५३
रघोरिति ॥ रघोरवष्टम्भभयेन स्तम्भरूपेण ॥ "अवष्टम्भः सुवर्णे च
स्तम्भप्रारम्भयोरपि" इति विश्वः ॥ पत्रिणा बाणेन हृदि हृदये क्षतो विद्धः। अत ए-