वामर्षणोऽसहनः । क्रुद्ध इयर्थः । गोत्रभिदिन्द्रोऽपि ॥"संभावनाये चौरेऽपि गोत्र: क्षौणीधरे मतः" इति विश्वः॥ नवाम्बुदानामनीकस्य वृन्दस्य मुहूर्तं क्षणमात्रं लाञ्छने चिह्नभूते धनुषि । दिव्ये धनुषीत्यर्थः । अमोघमवन्ध्यं सायकं वाणं समधत्त संहितवान् ॥
दिलीपसूनोः स बृहद्भुजान्तरं प्रविश्य भीमासुरशोणितोचितः।
पपावनास्वादितपूर्वमाशुगः कुतूहलेनेव मनुष्यशोणितम् ॥५४॥
दिलीपेति ॥ भीमानां भयंकराणामसुराणां शोणिते रुधिर उचितः परिचितः स इन्द्रमुक्त आशुगः सायको दिलीपसूनो रघोर्बृद्विशालं भुजान्तरं वक्षः प्रविश्य अनास्वादितपूर्वं पूर्वमनास्वादितम् ॥ सुप्सुपेति समासः ॥ मनुष्यशोणितं कुतूहलेनेव पपौ॥
हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ
भुजे शचीपत्रविशेषकाङ्किते स्वनामचिह्न निचखान सायकम्।।५५॥
हरेरिति ।। कुमारस्य स्कन्दस्य विक्रम इव विक्रमो यस्य स तथोक्तः ॥ “सप्तम्युपमानपूर्वस्य-" इत्यादिना समासः ॥ कुमारोऽपि रघुरपि सुरद्विपस्यैरावतस्यास्फालनेन कर्कशा अङ्गुलयो यस्य सः । तस्मिन् । शच्याः पत्रविशेषकैरङ्किते शचीपत्रविशेषकाङ्किते हरेरिन्द्रस्य भुजे खनामचिह्नं स्वनामाङ्कितं सायकं निचखान निखातवान् । निष्कण्टकराज्यमाप्तस्यायं महानभिभव इति भावः ॥
जहार चान्येन मयूरपत्रिणा शरेण शक्रस्य महाशनिध्वजम् ।
चुकोप तस्मै स भृशं सुरश्रियः प्रसह्य केशव्यपरोपणादिव ।।५६॥
जहारेति ॥ अन्येन मयूरपत्रिणा मयूरपत्रवता शरेण शक्रस्येन्द्रस्य महाशनि- ध्वजं महान्तमशनिरूपं ध्वजं जहार चिच्छेद च । स शक्रः। सुरश्रियः प्रसह्य बलात्कृत्य केशानां व्यपरोपणादवतारणाच्छेदनादिव । तस्मै रघवे भृशमत्यर्थं चुकोप । तं हन्तुमियेषेसर्थः ॥ “क्रुधद्रु-" इत्यादिना संप्रदानचतुर्थी ।
तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविषभीमदर्शनैः ।
बभूव युद्धं तुमुलं जयैषिणोरधोमुखैरूर्ध्वमुखैश्च पत्रिभिः॥५७॥
तयोरिति ॥ जयैषिणोरन्योन्यजयाकाङ्क्षिणोस्तयोरिन्द्ररघ्वोः॥ गरुत्मन्तः पक्षवन्तः॥ “गरुत्पक्षच्छदाः पत्रम्" इत्यमरः॥आशीविषाः।आशिषि दंष्ट्रायां विषं येषां त आशीविषाः सर्पाः॥पृषोदरादित्वात्साधुः"स्त्री त्वाशीर्हिताशंसादिष्टयोः"
१ नरेन्द्रसूनोः. २ शचीपत्रलताक्रियोचिते. ३ मयूरपक्ष्मणा.