पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ६६ )
रघुवंशे

  तदङ्गमग्र्यं मघवन्महाकतोरमुं तुरंगं प्रतिमोक्तुमर्हसि ।
  पथः श्रु[१]तेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् ॥४६॥

 तदिति ॥हे मघवन् । तत्तस्मात्कारणान्महाक्रतोरश्वमेधस्याग्र्यं श्रेष्ठमङ्गं साधनममुं तुरंग प्रतिमोक्तुं प्रतिदातुमर्हसि ॥ तथाहि । श्रुतेः पथो दर्शयितारः सन्मार्गप्रदर्शका ईश्वरा महान्तो मलीमसां मलिनां पद्धतिं मार्गं नाददते न स्वीकुर्वते । असन्मार्गं नावलम्बन्त इत्यर्थः ॥ “मलीमसं तु मलिनं कच्चरं मलदूषितम्" इत्यमरः ॥

  इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसाम् ।
  निवर्तयामास रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुमुत्तरम् ॥४७॥

 इतीति ॥ इति रघुणा समीरितं प्रगल्भं वचो निशम्याकर्ण्य । दिवौकसः स्वर्गौकसः॥ “दिवं स्वर्गेऽन्तरिक्षे च" इति विश्वः ॥ तेषामधिपतिर्देवेन्द्रो रघुप्रभावात्सविस्मयः सन् । रथं निवर्तयामास । उत्तरं प्रतिवक्तुं प्रचक्रमे च ॥

  [२]दात्थ राजन्यकुमार तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः।
  जगत्प्रकाशं तदशेषमिज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः॥४८॥

 यदिति ॥ हे राजन्यकुमार क्षत्रियकुमार ॥ “मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्" इत्यमरः॥ यद्वाक्यमात्थ ब्रवीषि ॥ “ब्रुवः पञ्चानाम्-" इत्यादिनाहादेशः ॥ तत्तथा सत्यम् । किंतु यशोधनैरस्मादृशैः परतः शत्रुतो यशो रक्ष्यम् ॥ ततः किमत आह-भवद्गुरुस्त्वत्पिता जगत्प्रकाशं लोकप्रसिद्धमशेषं सर्वं मम तद्यश इज्यया यागेन लङ्घयितुं तिरस्कर्तुमुद्यत उद्युक्तः ॥

 किं तद्यश इत्याह-

  हरिर्यथैकः पुरुषोत्तमः स्मृतो महेश्वरस्त्र्यम्बक एव नापरः ।
  तथा विदुर्मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः॥४९॥

 हरिरिति ॥ पुरुषेषूत्तम इति सप्तमीसमासः । “न निर्धारणे" इति षष्ठीसमासनिषेधात् । कर्मधारये तु "सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः" इत्युत्तमपुरुष इति स्यात् ॥ यथा हरिर्विष्णुरेक एव पुरुषोत्तमः स्मृतः । यथा च त्र्यम्बकः शिव एव महेश्वरः स्मृतः । नापरोऽपरः पुमान्न । तथा मां मुनयः शतक्रतुं विदुर्विदन्ति ॥ “विदो लटो वा" इति झेर्जुसादेशः ॥ नोऽस्माकम् । हरिहरयोर्मम

चेत्यर्थः । एष त्रितयोऽपि शब्दो द्वितीयगामी न हि ॥ द्वितीयाप्रकरणे नमिगम्यादीनामुपसंख्यानात्समासः॥


  1. शुचेः
  2. यथा