सत्यामिति ॥ कल्पविद्व्रतप्रयोगाभिज्ञो मुनिः । तपःसिध्दौ सत्यामपि । तपसैव राजयोग्याहारसंपादनसामर्थ्ये सत्यपीत्यर्थः । नियमापेक्षया तदाप्रभृत्येव व्रतचर्यापेक्षया । अस्य राज्ञो वन्यामेव । संविधीयतेऽनयेति संविधाम् । कुशादिशयनसामग्रीम् ॥ “आतश्चोपसर्गे” इति कप्रत्ययः । “अकर्तरि च कारके संज्ञायाम्” इति कर्माद्यर्थत्वम् ॥ कल्पयामास संपादयामास ।।
निर्दिष्टां कुलपतिना स पर्णशाला-
मध्यास्य प्रयतपरिग्रहद्वितीयः।
तच्छिष्याध्ययननिवेदितावसानां
संविष्टः कुशशयने निशां निनाय ॥९५॥
निर्दिष्टामिति ॥ स राजा कुलपतिना मुनिकुलेश्वरेण वशिष्ठेन निर्दिष्टां पर्णशालामध्यास्याधिष्ठाय । तस्यामधिष्ठानं कृत्वेत्यर्थः ॥ “ अधिशीङ्-” इत्यादिनाधारस्य कर्मत्वम् । कर्मणि द्वितीया ॥ प्रयतो नियतः परिग्रहः पत्नी द्वितीयो यस्येति स तथोक्तः । कुशानां शयने संविष्टः सुप्तः सन् । तस्य वशिष्ठस्य शिष्याणामध्ययनेनापररात्रे वेदपाठेन निवेदितमवसानं यस्यास्तां निशां निनाय गमयामास ॥ अपररात्रेऽध्ययने मनु:-“निशान्ते न परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ” । “ न चापररात्रमधीत्य पुनः स्वपेत्” इति गौतमश्च ॥ प्रहर्षणीवृत्तमेतत् । तदुक्तम्-“म्नौ जौ गस्त्रिदशयतिः प्रहर्षणीयम्” ॥
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
वशिष्ठाश्रमाभिगमनो नाम प्रथमः सर्गः ।
द्वितीयः सर्गः।
आशासु राशीभवदङ्गवल्लीभासैव दासीकृतदुग्धसिन्धुम् ।
मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽरविन्दासनसुन्दरि त्वाम् ।।
अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् ।
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥१॥
अथेति ॥ अथ निशानयनानन्तरं यशोधनः प्रजानामधिपः प्रजेश्वरः प्रभाते प्रातःकाले जायया सुदक्षिणया । प्रतिग्राहयित्र्या । प्रतिग्राहयिहिते स्वीकारिते गन्ध-