माल्ये यया सा जायाप्रतिग्राहितगन्धमाल्या । तां तथोक्ताम् । पीतं पानमस्यास्तीति पीतः । पीतवानित्यर्थः ॥ “अर्शआदिभ्योऽच्” इत्यच्प्रत्ययः । “पीता गावो भुक्ता ब्राह्मणाः” इति महाभाष्ये दर्शनात् ॥ पीतः प्रतिबद्धो वत्सो यस्यास्तामृषेर्धेनुं वनाय वनं गन्तुम् ॥ “क्रियार्थोपपद-” इत्यादिना चतुर्थी । मुमोच मुक्तवान् ॥ जायापदसामर्थ्यात्सुदक्षिणायाः पुत्रजननयोग्यत्वमनुसंधेयम् । तथाहि श्रुतिः-“ पतिर्जायां प्रविशति गर्भो भूत्वेह मातरम् । तस्यां पुनर्नवो भूत्वा दशमे मासि जायते। तज्जाया जाया भवति यदस्यां जायते पुनः” इति।। यशोधन इत्यनेन पुत्रवत्ताकीर्तिलोभाद्राजानर्हे गोरक्षणे प्रवृत्त इति गम्यते ॥ अस्मिन्सर्गे वृत्तमुपजाति:--“अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः” इति ।।
तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया ।
मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ॥२॥
तस्या इति ॥ पांसवो दोषा आसां सन्तीति पांसुलाः स्वैरिण्यः ॥ “ स्वैरिणी पांसुला” इत्यमरः ॥ “सिध्मादिभ्यश्च” इति लच्प्रत्ययः ॥ अपांसुलानां पतिव्रतानां धुर्यग्रे कीर्तनीया परिगणनीया मनुष्येश्वरधर्मपत्नी । खुरन्यासैः पवित्राः पांसवो यस्य तम् ॥ “ रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः” इत्यमरः ॥ तस्यां धेनोर्मार्गम् । स्मृतिर्मन्वादिवाक्यं श्रुतेर्वेदवाक्यस्यार्थमभिधेयमिव । अन्वगच्छदनुसृतवती च । यथा स्मृतिः श्रुतिक्षुण्णमेवार्थमनुसरति तथा सापि गोखुरक्षुण्णमेव मार्गमनुससारेयर्थः ॥ धर्मपत्नीत्यत्राश्वघासादिवत्तादर्थ्ये षष्ठीसमासः प्रकृतिविकाराभावात् ॥ पांसुलपथप्रवृत्तावप्यपांसुलानामिति विरोधालंकारो ध्वन्यते॥
निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः ।
पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम् ॥३॥
निवर्त्येति ॥ दयालुः कारुणिकः ॥ “स्याद्द्यालुः कारुणिकः” इत्यमरः॥ “स्पृहिगृहि-” इत्यादिनालुच्प्रत्ययः ॥ यशोभिः सुरभिर्मनोज्ञः ॥ “सुरभिः स्यान्मनोज्ञेऽपि” इति विश्वः ॥ राजा तां दयितां निवर्त्य सौरभेयीं कामधेनुसुतां नन्दिनीम् । धरन्तीति धराः ॥ पचाद्यच् ॥ पयसां धराः पयोधराः स्तनाः ॥ “स्त्रीस्तनाब्दौ पयोधरौ” इत्यमरः ॥ अपयोधराः पयोधराः संपद्यमानाः पयोधरीभूताः ॥ अभूततद्भावे च्विः ॥ “कुगतिप्रादयः” इति समासः ॥ पयोधरीभूताश्चत्वारः समुद्रा यस्यास्ताम् ॥ “ अनेकमन्यपदार्थे ” इत्यनेकपदार्थग्रहणसामर्थ्यात्त्रिपदो बहुव्रीहिः ॥ गोरूपधरामुर्वीमिव । जुगोप ररक्ष ॥ भूरक्षणप्रयत्नेनेव ररक्षेति भावः ॥ धेनुपक्षे पयसा दुग्धेनाधरीभूताश्चत्वारः समुद्रा यस्याः सा तथोक्ताम् । दुग्धतिरस्कृतसागरामित्यर्थः ॥