व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः ।
न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ॥ ४ ॥
व्रतायेति ॥ व्रताय धेनोरनुचरेण । न तु जीवनायेति भावः । तेन दिलीपेन शेषोऽवशिष्टोऽप्यनुयायिवर्गोऽनुचरवर्गो न्यषेधि निवर्तितः ॥ शेषत्वं सुदक्षिणापेक्षया ॥ कथं तार्ह्यात्मरक्षणमत आह--न चेति ॥ तस्य दिलीपस्य शरीररक्षा चान्यतः पुरुषान्तरान्न । कुतः । हि यस्मात्कारणान्मनोः । प्रसूयत इति प्रसूतिः संततिः स्ववीर्यगुप्ता स्ववीर्येणैव रक्षिता ॥ न हि स्वनिर्वाहकस्य परापेक्षेति भावः ॥
आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैर्दंशनिवारणैश्च ।
अ[१]व्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ॥ ५ ॥
आस्वादवद्भिरिति ॥ सम्राण्मण्डलेश्वरः ॥ "येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राट्" इत्यमरः ॥ स राजा । आस्वादवद्भी रसवद्भिः । स्वादयुक्तैरित्यर्थः । तृणानां कवलैर्ग्रासैः ॥ "ग्रासस्तु कवलार्थकः" इत्यमरः ॥ कण्डूयनैः स्वर्जनैः । दंशानां वनमक्षिकाणां निवारणैः ॥ "दंशस्तु वनमक्षिका" इत्यमरः ॥ अव्याहतैरप्रतिहतैः स्वैरगतैः स्वच्छन्दगमनैश्च । तस्या धेन्वाः समाराधनतत्परः शुश्रूषासक्तोऽभूत् ॥ तदेव परं प्रधानं यस्येति तत्परः ॥ "तत्परौ प्रसितासक्तौ" इत्यमरः ॥
स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः ।
जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ॥ ६ ॥
स्थित इति ॥ भूपतिस्तां गां स्थितां सतीं स्थितः सन् । स्थितिरूर्ध्वावस्थानम् । प्रयातां प्रस्थितामुच्चलितः प्रस्थितः । निषेदुषीं निषण्णाम् । उपविष्टामित्यर्थः ॥ "भाषायां सदवसश्रुवः" इति क्वसुप्रत्ययः । "उगितश्च" इति ङीप् ॥ आसनबन्ध उपवेशने धीरः स्थितः । उपविष्टः सन्नित्यर्थः । जलमाददानां पिबन्तीं जलाभिलाषी । पिबन्नित्यर्थः । इत्थं छायेवान्वगच्छदनुसृतवान् ॥
स इति ॥ न्यस्तानि परिहृतानि चिह्नानि छत्रचामरादीनि यस्यास्तां तथाभूतामपि तेजोविशेषेण प्रभावातिशयेनानुमिताम् । सर्वथा राजैवायं भवेदित्यूहितां