वधूर्भक्तिमती चैनामर्चितामा तपोवनात् ।
[१]प्रयता प्रातरन्वेतु सायं प्रत्युव्द्रजेदपि ॥ ९० ॥
वधूरिति ॥ वधूर्जाया च भक्तिमती प्रयता सती गन्धादिभिरर्चितामेनां गां प्रतरा तपोवनात् ॥ आङ् मर्यादायाम् । पदद्वयं चैतत् ॥ अन्वेत्वनुगच्छतु । सायमपि प्रत्युद्व्रजेत्प्रत्युद्गच्छेत् ॥ विध्यर्थे लिङ्॥
इत्या प्रसादादस्यास्त्वं परिचर्यापरो भव ।
अविघ्नमस्तु ते स्थेयाः[२] पितेव धुरि पुत्रिणाम् ॥९१ ॥
इतीति ॥ इत्यनेन प्रकारेण त्वमा प्रसादात्प्रसादपर्यन्तम् ॥ “आङ् मर्यादाभिविध्योः” इत्यस्य वैभाषिकत्वादसमासत्वम् ॥ अस्या धेनोः परिचर्यापरः शुश्रूषापरो भव । ते तवाविघ्नं विघ्नस्याभावोऽस्तु ॥ “अव्ययं विभक्ति-” इत्यादिनार्थाभावेऽव्ययीभावः ॥ पितेव पुत्रिणां सत्पुत्रवताम् । प्रशंसायामिनिमत्ययः॥ धुर्यग्रे स्थेयास्तिष्ठेः ॥ आशीरर्थे लिङ् । “एलिङि” इत्याकारस्यैकारादेशः ॥ त्वत्सदृशो भवत्पुत्रोऽस्त्विति भावः ॥
तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः ।
आदेशं देशकालज्ञः शिष्यः शासितुरानतः॥ ९२ ॥
तथेति ॥ देशकालज्ञः । देशोऽग्निसंनिधिः। कालोऽग्निहोत्रावसानसमयः । विशिष्टदेशकालोत्पन्नमार्षं ज्ञानमव्याहतमिति जानन् । अत एव प्रीतिमाञ्छिष्योऽन्तेवासी राजा सपरिग्रहः सपत्नीकः ॥ “पत्नीपरिजनादानमूलशापाः परिग्रहाः” इत्यमरः ॥ आनतो विनयनम्रः सन् । शासितुर्गुरोरादेशमाज्ञां तथेति प्रतिजग्राह स्वीचकार ॥
अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् ।
सूनुः सूनृतवाक्स्रष्ट्रर्विससर्जोदि[३]तश्रियम् ॥ ९३॥
अथोति ॥ अथ प्रदोषे रात्रौ दोषज्ञो विद्वान् ॥ “विद्वान्विपश्चिद्दोषज्ञः” इत्यमरः ॥ सूनृतवाक्सत्यप्रियवाक् ॥ “प्रियं सत्यं च सूनृतम्” इति हलायुधः ॥ स्रष्टुः सूनुर्ब्रह्मपुत्रो मुनिः । अनेन प्रकृतकार्यनिर्वाहकत्वं सूचयति । उदितश्रियं विशांपतिं मनुजेश्वरम् ॥ “द्वौ विशौ वैश्यमनुजौ” इत्यमरः॥ संवेशाय निद्रायै ॥ “स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि” इत्यमरः ॥ विससर्जाज्ञापयामास ॥
सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः।
कल्पवित्कल्पयामास वन्यामेवास्य संविधाम् ॥ ९४ ॥