रज इति ॥ खुरोध्दूतैरन्तिकात्समीपे गात्रं स्पृशद्भिः॥ “दूरान्तिकार्थेभ्यो द्वितीया च" इति चकारात्पञ्चमी ॥ रजसां कणैः । महीं क्षियत ईष्ट इति महीक्षित्। तस्य । तीर्थाभिषेकेण जातां तीर्थाभिषेकजाम् । शुध्दिमादधाना कुर्वाणा ॥ एतेन वायव्यं स्नानमुक्तम् । उक्तं च मनुना-“आग्नेयं भस्मना स्नानमवगाह्यं तु वारुणम् । आपोहिष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम्" इति ॥
तामिति ॥ निमित्तज्ञः शकुनज्ञस्तपोनिधिर्वशिष्ठः । पुण्यं दर्शनं यस्यास्तां तां धेनुं दृष्ट्वा । आशंसितं मनोरथः ॥ नपुंसके भावे क्तः ॥ तत्रावन्ध्यं सफलं प्रार्थनं यस्य स तम् । अवन्ध्यमनोरथमित्यर्थः । याजयितुं योग्यं याज्यं पार्थिवं पुनरब्रवीत्।।
अदूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः।
उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥ ८७॥
अदूरेति ॥ हे राजन्, आत्मनः कार्यस्य सिद्धिमदूरवर्तिनीं शीघ्रभाविनीं विग-णय विद्धि । यद्यस्मात्कारणात्कल्याणी मङ्गलमूर्तिः ॥ “बह्वादिभ्यश्च" इतिङीप् । इयं धेनुर्नाम्नि कीर्तिते कथिते सत्येवोपस्थिता ॥
वन्येति ॥ वने भवं वन्यं कन्दमूलादिकं वृत्तिराहारो यस्य तथाभूतः सन् । इमां गां शश्वत्सदा । आ प्रसादादविच्छेदेनेत्यर्थः । आत्मनस्तव । कर्तुः । अनुगमनेनानुसरणेन । अभ्यसनेनानुष्ठातुरभ्यासेन विद्यामिव । प्रसादयितुं प्रसन्नां कर्तुमर्हसि ॥
गवानुसरणप्रकारमाह-
प्रस्थितायां प्रतिष्ठेथाः [५]स्थितायां स्थितिमाचरेः।
निषण्णायां निषीदास्यां पीताम्भसि पिबेरपः॥ ८९॥
प्रस्थितेति ॥ अस्यां नन्दिन्यां प्रस्थितायां प्रतिष्ठेथाः प्रयाहि ॥ “समवप्रविभ्यः स्थः" इत्यात्मनेपदम् ॥ स्थितायां निवृत्तगतिकायां स्थितिमाचरेः स्थितिं कुरु । तिष्ठेत्यर्थः। निषण्णायामुपविष्टायां निषीदोपविश ॥ विध्यर्थे लोट् ॥ पीतमम्भो यया तस्यां पीताम्भसि सत्यामपः पिबेः पिब ।