पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
मेघदूतम् ।

२६ मेघदूतम् । ऽहर्मुखं कल्यम्" इत्यमरः ।। पटु प्रस्फुटम् । मदकलं मदेनाव्यक्तमधुरम् ।। "ध्वनौ तु मधुरास्फुटे। कलः” इत्यमरः । सारसानां पक्षिविशेषाणाम् ।। "सारसा मैथुनो कामी गोनर्दः पुष्कराह्वयः" इति यादवः ॥ यद्वा सार- सानां हंसानाम् ॥ 'चक्राङ्ग: सारसो हंसः” इति शब्दार्णवे ।। कूजितं रुतं दीर्घीकुर्वन् । विस्तारयन्नित्यर्थः । यावद्वातं शब्दावृत्तेरिति भावः । एतेन प्रियतमः स्वचाटुवाक्यानुसारिक्रीडापक्षिकूजितमविच्छिन्नीकुर्वन्निति च गम्यते । स्फुटितानां विकसितानां कमलानामामोदेन परिमलेन सह या मैत्री संसर्गस्तेन कपायः सुरभिः ॥ “रागद्रव्ये कपायोऽस्त्री निर्यासे सौरभे रसे" इति यादवः ॥ अन्यत्र विमर्दगन्धत्यर्थः ॥ "विमर्दोत्थे परिमलो गन्धे जनमनोहरे। आमोदः सोऽतिनिर्हारी" इत्यमरः ।। अङ्गानुकूलो गात्रसुखस्पर्शः । अन्यत्र गाढालिङ्गनदत्तगात्रसंवाहन इत्यर्थः । भव- भूतिना चोक्तम्-" अशिथिलपरिरम्भैर्दनसंवाहनानि इति ॥ संवा- ह्यन्ते च सुरतश्रान्ता: प्रियैयुवतयः। एतत्कविरेव वक्ष्यति-"संभोगान्ते मम समुचितो हस्तसंवाहनानाम्" इति ॥ शिप्रा नाम काचित्तत्रत्या नदी तस्या वातः शिप्रावातः । शिगग्रहणं शैत्यद्योतनार्थम् ।। प्रार्थना सुग्तस्य याञ्चा तत्र चाटु करोतीति तथोक्तः । पुनः सुरतार्थे प्रियवचनप्रयाक्ते- त्यर्थ. ॥ कर्मण्यण्प्रत्ययः ॥ प्रियतमो वल्लभ इव स्त्राणां सुरतग्लानि संभो. गखेदं हरति नुदति । चाटूक्तिभिर्विस्मृतपूर्वतिखेदाः स्त्रियः प्रियतमप्रार्थ- नां सफलयन्तीति भावः ।। 'प्रार्थनाचाटुकारः' इत्यत्र "खण्डितनायि- कानुनीता" इति व्याख्याने सुरतग्लानिहरणं न संभवति । तस्याः पूर्व सुरताभावात्पश्चात्तनसुरतग्लानिहरणं तु नदानन्तनकोपशमनार्थचाटुवचन- साध्यमित्युत्प्रेक्षैवोचिता विवेकिनाम् ज्ञातेऽन्यासङ्गविकृते खण्डितर्ष्या- कपायिता" इति दशरूपके ॥

 इतः परं प्रक्षिप्तमपि श्लोकत्रयं व्याख्यायते-

 हारांस्तारांस्तरलगुटिकान्कोटिशः शङ्खशुक्तोः
  शप्पश्यामान्मर कतमणीनुन्मयूखप्ररोहान ।
 दृष्ट्वा तस्यां विपरिणरचितान्विद्रुमाणां च भङ्गा-
  न्संलक्ष्यन्त सलिलनिधयस्तोयमात्रावशेपाः ।।

 हारानिति ॥ यस्यां विशालायां कोटिशो विपणिषु पण्यवीथिकासु ॥ "विपणिः पण्यवाथिका" इत्यमरः ॥ रचितान्प्रसारितान् ।। इदं विशे-

पणं यथालिङ्गं सर्वत्र संबध्यते । तारञ्छुद्धान् ॥ "तारो मुक्तादिसंशुद्धौ