पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
पूर्वमेघः ।

तरणे शुद्धमौक्तिके” इति विश्वः ॥ तरलगुटिकान्मध्यमणीभूतमहारत्नान् ।। "तरलो हारमध्यगः” इत्यमरः ॥ "पिण्डे मणौ महारत्ने गुटिका बद्धपारदे” इति शब्दार्णवे । हारान्मुक्तावलीः । तथा कोटिशः शङ्खांश्च शुक्तीश्च मुक्तास्फोटांश्च ।। "मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियाम्" इत्यमरः ।। शष्पं बालतृणं तद्वच्छयामान् ।। "शष्पं बालतृणं घासो यवसं तृणमर्जुनम्" इत्यमरः ॥ उन्मयूखप्ररोहानुद्गतरम्याङ्कुरान्मरकतमणी- न्गारुडरत्नानि । तथा विद्रुमाणां भङ्गान्प्रवालखण्डांश्च दृष्ट्वा सलिलनिधयः समुद्रास्तोयमात्रमवशेषो येषां ते तादृशाः संलक्ष्यन्ते । तथानुमीयन्त इत्यर्थः । रत्नाकरादप्यतिरिच्यते रत्नसंपद्भिरिति भावः ।।

 प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जह्रे
  हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञः।
 अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पा-
  दित्यागन्तूनमयति जनो यत्र बन्धूनभिज्ञः ॥

 प्रद्योतस्येति ॥ अत्र प्रदेशे वत्सराजो वत्सदेशाधीश्वर उदयनः । प्रद्योतस्य नामोज्जयिनीनायकस्य राज्ञः प्रियदुहितरं वासवदत्तां जह्रे जहार। अत्र स्थले तस्यैव राज्ञः प्रद्योतस्य हैमं सौवर्णं तालद्रुमवनमभूत् । अत्र नलगिरिर्नामेन्द्रदत्तस्तदीयो गजो दर्पान्मदातामानालानमुत्पाट्योधृत्यो- द्भ्रान्त उत्पत्य भ्रमरं कृतवान् । इतीत्थंभूताभिः कथाभिरित्यर्थः । अभिज्ञः पूर्वोक्तकथाभिज्ञः कोविदो जन आगन्तून्देशान्तरादागतान् ।। औणादिकस्तुन्प्रत्ययः ॥ बन्धून्यत्र विशालायां रमयति विनोदयति ॥ अत्र भाविकालंकारः । तदुक्तम्-"अतीतानागते यत्र प्रक्षत्यत्वेन लक्षिते। अत्यदुतार्थकथनाद्भाविकं तदुदाहृतम् ॥” इति ॥

 पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः
  शैलोदग्रात्स्वमिव करिणो वृष्टिमन्तः प्रभेदात् ।
 योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः
  प्रत्यादिष्टाभरणरुचयश्चन्द्रहासव्रणाङ्कैः ॥

 पत्रेति ॥ हे जलद, यत्र विशालायां वाहा हयाः पत्रश्यामाः पलाशवर्णा अत एव दिनकरहयस्पर्धिनो वर्णतो वेगतश्च सूर्याश्वकप्लास्तथा शैलोदग्राः शैलवदुन्नताः करिणः प्रभेदान्मदस्रावाद्धेतोस्त्वामिव वृष्टिमन्तः। अग्रं नयन्तीत्यप्रण्यः ॥ "सत्सूद्विष-"इत्यादिना क्विप् ॥ "श्रमग्रामाभ्यां