३
द्धातून् पठित्वा ............ उदयतीत्यादिचैवमसाध्वेवास्तु' इति"
एवं बहुत्र ।
"'श्रम्भु प्रमादे' .... .... दैवेप्येवमेवोक्तम्"
इ[१]ति । क्वचित्क्वचित्तु पुरुषकारनामाग्रहणेन पुरुषकारवाक्यं सायणेनोपन्यस्तमुपलभ्यते । यथा--
"'नट नृत्तौ' .... .... 'यत्कारिषु नटव्यपदेशः । न तु
मार्गदेशीशब्दाभ्यां प्रसिद्धं नृत्तं नृत्यं च, यत्कारिषु नर्त्तकव्यपदेशः ।
तत्र वाक्यार्थाभिनयो नाट्यं पदार्थाभिनयस्तु नृत्यम्;
अभिनयशून्यः पुनः शास्त्रोक्तभङ्ग्या स्वगात्रविक्षेपो नृत्तमिति तद्विदः ।
नैघण्टुकानां तु 'ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्त्तनम्'
इत्यभेदव्यवहारो निरूढलक्षणया नेयः' "
अट्टधातौ पक्षविशेषाश्रयेण पुरुषकारेऽभ्यु[२]पगतम् अतिट्टिषत इति रूपं प्रति
"एवं च पुरुषकारादिषु अतिट्टिषत इति तकारस्य
शेषेणोदाहरणप्रदर्शनं चिन्त्यम्" ।
इत्ययं सायणस्य विसंवादोऽन्यश्चैवञ्जातीयकोऽत्यल्प उपलभ्यते । किन्त्वसौ ग्रन्थमात्रसाधारणः सुवचप्रतीकारश्चेति सर्वथानवद्यं माननीयं प्रमाणं वैयाकरणानां पुरुषकारः ॥
- प्रत्ययान्तधातुवृत्तौ सायणीयायां बहून् बहुं वाचष्टे भावयतीति प्रक्रमे
"यदुक्तं पुरुषकारे बहयतीत्युदाहृत्य--'इष्ठनि यत् फिषः कार्यं,
तण्णावप्यतिदिश्यते । न चेष्ठनि यिट् फिषो भूभावश्च, भुवो
यिट्सन्नियोगशिष्टत्वात् । तेन न्यासे तु भावयतीति चिन्त्या प्राप्तिः' इति"
इति दर्शनादन्योऽपि पुरुषकारः सुब्धातुविवरणपरोऽस्तीति गम्यते । मुद्रिते हि पुरुषकारे नास्ति सायणोदाहृतं वाक्यं, न च लुप्तत्वेन वक्ष्यमाणे पत्रे संभावयितुं शक्यम् अप्रकृतार्थत्वात्, लुप्तपत्रव्याख्यानविषयभूते श्लोके नामधातोरप्रस्तावात्, मूलोक्तवस्तुविजातीयवस्तुनः पुरुषकारे क्वचिदपि प्रसक्तानुप्रसक्त्यानुल्लेखात् ।