पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

किन्त्वसौ नोपलभ्यते । अत्रत्यराजकीयपुस्तकशालास्थयोः अभिनवकौस्तुभमालादक्षिणामूर्तिस्तवाभिधानयोर्ग्रन्थयोरन्ते

  "श्रीकृष्णकेळि[१]शुकवाङ्मयवीचिमालालीलारसज्ञ(मकर)श्रवणाञ्चलस्य ।
  देवस्य दिव्यहृदये हृदयङ्गमेयं कण्ठस्थले च सुकृतां सुचिराय जीयात् ॥"
  "त्रिभुवनसुभगेयं दक्षिणामूर्तिमूर्तौ भगवति कृतभावा कृष्णलीलाशुकीया ।
  जयतुजयतु देवी भारती जीवलोकश्रवणहृदयजिह्वाजन्म साफल्यमेतु ॥"

इति ग्रन्थकर्तृनामोपलभ्यते । एतद्ग्रन्थगाम्भीर्यस्य कृष्णभक्तेश्च पर्यालोचनयायं कृष्णलीलाशुकः पुरुषकारकर्त्तुरभिन्न इति शक्यमूहितुं, यस्मात् पुरुषकारकर्ताप्याद्यन्तश्लोकाभ्यां कृष्णभक्त इति स्पष्टं गम्यतेः दक्षिणामूर्तिभक्तिश्चास्य मु[२]निप्रथाया आनुगुण्यं धत्ते । रमणीयभणितिनैपुण्यसहचरं कृष्णभक्तत्वमेवोपाधिमाश्रित्य कदाचिदनेन कृष्णलीलाशुक इति नामधेयमागन्तुकमधिगतं स्यात् । देवस्य तु नान्या कृतिरवगम्यते ॥

 देव-कृष्णलीलाशुकयोः समयस्य पुनर्न निर्णयः । अथापि सायाणाचार्यात् तौ प्राचीनाविति सामान्यतोऽवधारितमेव । सायणाचार्यश्च क्रैस्ताब्दीयस्य चतुर्दशशतकस्य मध्ये स्थितः । पुरुषकारे क्षीरस्वामिना सह दैवं संवादयितुमसकृत् संरम्भस्य द[३]र्शनाद् देवः क्षीरस्वाम्यपेक्षयार्वाचीन इत्यप्यवगतम् । क्षीरस्वामीचायं

  "देशान्तरादागमय्य व्याचक्षाणः क्षमापतिः । .
  प्रावर्त्तयत विच्छिन्नं महाभाष्यं स्वमण्डले ॥
  क्षीराभिघाच्छब्दविद्योपाध्यायात् सम्भृतश्रुतः ।
  बुधैः सह ययौ वृद्धिं स जयापीडपण्डितः ॥"

इति रा[४]जतरङ्गिण्यां प्रतिपादितो महाभाष्योज्जीवयितुः ७५१ तमक्रैस्ताब्दस्थितस्य जयापीडभूपतेर्व्याकरणोपाध्यायो यः क्षीरः, स एव सम्भाव्यते । कृष्णलीलाशुकश्च हेमचन्द्रं द्वादशशतकमध्यवर्तिनं स्मरंस्त्रयोदशशतक आसीदिति प्रतीयते । ततश्च देवः क्रैस्ताब्दीयस्य नवमशतकस्य द्वादशशतकस्य चान्तराले स्थित इति शक्यं कल्पयितुम्[५] । पुरुषकारस्यान्ते

  1. केलिशब्दो लीलापर्यायो वृत्तानुगुण्याय प्रयुक्तः.
  2. समाप्तिवाक्यं त्रिष्वपि ग्रन्थेषु 'इति कृष्णलीलाशुकमुनि ... ... ... ...' इति दृश्यते.
  3. ४३. पृष्ठे चकधातुर्दृश्यताम्.
  4. 'निर्णयसागर' मुद्रिताया अस्याः प्रथमपुस्तकस्य चतुर्थतरङ्गे ४८८, ४८९. श्लोकाविमौ.
  5. १२. पृष्ठे 'बली पुरुषकारो हि दैवमप्यतिवर्तते' इत्यर्धं पुरुषकारस्थम् अष्टाङ्गहृदये शारीरस्थाने १. अध्याये ३८. श्लोकेऽप्यस्ति.