पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आर्षेयब्राह्मणम्

इत्यैकं साम । आ। भ्राजा इत्यादि अग्निर्मूर्धा (आ. गा. ६. १. २५२ इति मन्द्र (क्रुष्ट?) द्वितीयादिकं सूर्यस्य आभ्राजनामधेयम् ॥ ४ ॥

वायोर्विकर्णभासे द्वे । मृत्योर्वा ॥ ६.४.१.५ ॥

विभ्राइ बृहत् पिबतु सोम्यम् (सा. ६२८) इत्यत्रैकं साम । [ह हाउ (त्रिः) इत्यादि विभ्राट्बृहत्पिबतु (आ. गा. ६. १. २५७) इ [क्रुष्टद्वितीयादिकं] वायोर्विकर्णनामधेयम् । प्रक्षस्य वृष्णो अरुषस्य (सा. ६०९) इत्यत्रैकं साम । हाउ (त्रिः) ओहा इत्यादि प्रक्षस्य वृष्ण (आ. गा. ६. १. २५८) इति [द्वितीयं] क्रुष्टादिकं वायोर्भासनामकम् । अथ द्वे सामनी मृत्योर्विकर्णभासनामके ॥ ५ ॥

ऐन्द्रं महादिवाकीर्त्यम् । सौर्यं वा दशानुगानम् । तस्य शिरश्च ग्रीवा च स्कन्धकीकसौ च पुरीषाणि च पक्षे चात्मा चोरू च पुच्छं चैतत् साम सुपर्णमित्याचक्षते ॥ ६.४.१.६॥

ऐन्द्रम् इन्द्रदेवत्यं महादिवाकीर्त्यम् । सौर्यं सूर्यदेवत्यं वा । तत्र दशानुगानम् । तत्र हाउ (त्रिः) आयुः (आ. ग.. ६. १. २५९) (स्तोभ गानम्) इत्यादिकम् एकम् । एवाहियेवाऔहोवा (आ. गा. ६.१.२६० (स्तोभगानम्) इत्यादिकं द्वितीयम् । वयोमनोवयःप्राणाः (आ. गा. ६. १ २६१) (स्तोभगानम् ) इत्यादिक तृतीयम् । वयोमनाः । होइहौवाओवा (आ. गा. ६. १. २६२) (स्तोभगानम् ) इत्यादिकं चतुर्थम् । ऊर्क् । हाउ (त्रिः) होवाक् (आ. गा. ६.१.२६३) (स्तोभगानम् ) इत्यादिकं पञ्चमम् धर्मविधर्म (आ. गा. ६.१.२६४) इत्यादिकं षष्ठम् । एतानि षडनुगानानि तस्य महादिवाकीर्त्यस्य आत्मक्रमेण शिरोग्रीवास्कन्धकीकसपुरीषपक्ष- नामधेयानि स्तोभतुल्यानि ऋगक्षररहितानि । औहोहोवाहोइ इत्यादि स्तोभ-