पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६१ षष्ठाध्याये चतुर्वपर्व (१)

युक्तानि विभ्राड्बृहत्पिबतु (आ. गा. ६. १. २६५) इति गीयमानं सप्तम- मनुगानम् । तस्यात्मेत्याचक्षते । भूमिः अन्तरिक्षम् (आ. गा. ६.१. २६६) (स्तोभगानम् ) इत्यादि क्रुष्टादिकमनुगानम् अष्टमम् । द्यौः (त्रिः) अन्तरिक्षम् (आ. गा. ६. १. २६७) (स्तोभगानम् ) इत्यादिकं नवमम् । हाउ (त्रिः) ज्योतिः (आ. गा. ६. १. २६८) (स्तोभगानम्) इत्यादिकं दशमम् । एतानि त्रीण्यनुगानानि ऊरुपुच्छसंज्ञकानि ऋगक्षरवर्जितान्येव । तदेतत्साम सुपर्णनामकमित्याचक्षते ॥ ६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये षष्ठाध्याये चतुर्थपर्वणि प्रथमः खण्डः ॥ १॥