पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थ पर्व

प्रथमः खण्डः


अग्नेर्व्रतम् ॥६.४.१.१॥

अग्निर्मूर्धा दिवः ककुत् (सा. २७) इत्यैकं साम । हाउ (त्रिः) भ्राजाओवा इत्यादि अग्निर्मूर्द्धा (आ. गा. ६. १. २५१) इति द्वितीयादिकं अग्नेर्व्रतम् एतत्संज्ञम् ॥१॥

वायोश्व व्रतम् ॥ ६.४.१.२॥

अया रुचा हरिण्या (सा. ४६३) इत्यत्रैकं साम । भ्राजा (त्रिः) उआ अयारुचाहरिण्या (आ. गा. ६. १. २५२) इति द्वितीयक्रुष्टादिकं वायोर्व्रतनामधेयम् ॥ २॥

महावैश्वानरव्रते द्वे ॥ ६.४.१.३ ॥

प्रक्षस्य वृष्णो अरुषस्य नू महः (सा. ६०९) इत्यत्रैकं साम । हाउ (त्रिः) ओहा इत्यादि प्रक्षस्यवृष्णः (आ. गा. ६.१.२६३) इति द्वितीयक्रुष्टा (तृतीया ?) दिकम् । कायमानो वना त्वम् (सा. ५३) इत्यत्रैकं साम । ओम् (त्रिः) आयुः इत्यादि कायमानोवनातुवाम् (आ. गा. ६. १. २५४) इति द्वितीयक्रुष्टादिकम् । एते द्वे महावैश्वानरव्रते। पूर्वत्र वैश्वा- नरायमतिरिति वैश्वानरशब्दो विद्यते। [उत्तरत्र] इहस्वर्वैश्वानराय इति विद्यते । तत्पदयुक्तत्वात् एते वैश्वानरव्रते ॥ ३ ॥

सूर्यस्य भ्राजाभ्राजे द्वे ॥ ६.४.१.४॥

अग्न आयूंषि पवस (सा. ६२७) इत्यत्रैकं साम । भ्राजा भ्राजा भ्राजा उवा । अग्न आयूंषि पवस (आ. गा. ६. १. २५१) इति द्वितीय- क्रुष्टादिकं सूर्यस्य भ्राजनामकम् । अग्निर्मूर्धा दिवः ककुत् (सा. २७)