२०३ पञ्चमः अध्यायः (१०)
द्वितीयादिकम् । सोमः पुना । नऊर्मिणोवा (ग्राम. १७.१०. ५७२.२)
इति मन्द्रद्वितीयादिकम् । एते आद्ये इन्द्रस्य सुज्ञाने । सोमः पुनानऊ
(ग्राम. १७. १०. ५७२.३) इति चतुर्थमन्द्रादिकम् । सोमःपुनानऊर्मिणा-
ऐही (ग्राम.१५.१०. ५७२. ४) इति द्वितीयतृतीयादिकम् । एते अनन्तरे
द्वे द्यौते । अथवा ज्योतिपे। सोमःपुना । नऊ (ग्राम. १७.१०. ५७२.
५) इति तृतीयचतुर्थादिकम् । सोमःपुना । हो (ग्राम. १७.१०.५७२. ६)
इति तृतीयचतुर्थादिकम् । एते अनन्तरे द्वे प्रजापतेरातीषादीये आयुर्वृद्धिकरे ।
अतीषादीयं भवति । आयुर्या आतीषादीयम् । आयुषोऽवरुध्या (तां. बा. ११. १२. १५-१६) इति ।। ७ ॥
सोमसामानि चत्वारि ॥ ५.१०.८ ॥
प्र पुनानाय वेधसे (सा ५७३) इत्यत्र सामद्वयम् । प्रपुनानाय- वेधसाइ (ग्राम. १७. १०. ५७३.१) इति द्वितीयक्रुष्टादिकम् । प्रपुनानौ- होयवेधसाइ (ग्राम १७.१०. ५७३.२) इति चतुर्थमन्द्रादिकम् । गोमान्न इन्द्रो अश्ववत् (सा. ५७४) इत्यत्रैकं साम। गोमान्नः (ग्राम. १७.१०. ५७४.१) इति तृतीयचतुर्थादिकम् ।। अस्मभ्यं त्वा वसुविदम् (सा. ५७५) इत्यत्रैकं साम । हावास्मा (ग्राम. १७.१०. ५७५.१) इति चतुर्थमन्द्रादि- कम् । एतानि ऋक्त्रयाश्रितानि चत्वारि सामानि सोमसामानि ॥ ८ ॥
सोमस्य यशांसि त्रीणि ॥ ५.१०.९॥
पवते हर्यतो हरिः (सा. ५७६) इत्यत्र सामानि त्रीणि । पवतेहा (ग्राम. १७.१०.५७६. . ) इति मन्द्रादिकम् । पा। पवतेहा (ग्राम १७.१०. ५७६.२) इति तृतीयद्वितीयादिकम् । पवते हर्यतः (ग्राम. १७. १०.५७६.३) इति तृतीयचतुर्थादिकम् । एतानि त्रीणि सोमस्य यशांसि यशःपदयुक्तानि सामानि । वीरवद्यशः (सा. ५७६ ) इति यशःशब्दो