पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्षेयवाह्मणम् २०२

सखा (ग्राम. १७.१०.५६९.२) इति द्वितीयतृतीयादिकम् । तं वः सखायोमदाया (ग्राम. १७.१०. ५६९.३) इति मन्द्रमन्द्रादिकम् । एतानि त्रीणि कार्णश्रवसानि। अत्र ब्राह्मणम् -- तं वः सखायो मदाय (तां ब्रा १३. ११.३) इत्युपक्रम्य कार्णश्रवसं भवति शृण्वन्ति तुष्टुवानम् । कर्णश्रया वा एतदाङ्गिरसः पशुकामः सामापश्यद् (ता. बा. १३.११.१४ १५) इति ॥ ४ ॥

वाचः सामनी द्वे । इन्द्रसामनी द्वे । मरुतां प्रेङ्खो वसिष्ठस्य वा ॥५.१०.५॥

प्राणा शिशुर्महीनाम् (सा. ५७०) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र प्राणा (ग्राम. १७.१०.५७०.१) इति चतुर्थमन्द्रादिकम् । प्राणाणा (ग्राम. १७.०. ५७०.२) इति चतुर्थमन्द्रादिकम् । एते द्वे वाचः सामनी ॥ प्राणा शशुः (ग्राम. १७.१०.५७०.३) इति चतुर्थमन्द्रादिकम् । प्राणा । होइ (ग्राम. १७.१०.५७०. ४) इति मन्द्रद्वितीयादिकम् । एते द्वे इन्द्रमामनी ॥ प्राणा । हहोइ (ग्राम. १७.१०. ५७०.५) इति मन्द्रतृतीयादिकं मरुतां प्रेशनामकम् । अथवा वसिष्ठस्य प्रेः ॥ ५ ॥

प्राजापत्ये द्वे । वैश्वदेवे वा ॥ ५.१०.६ ॥

पवस्व देववीतये (सा. ५७.) इत्यत्र सामद्वयम् । पवस्वदाइ (ग्राम, १७.१०. ५७१.१) इति क्रुष्टद्वितीयादिकम् । पवस्वदा । ववीत- याइ (ग्राम. १७. १०. ५७१. २) इति मन्द्रद्वितीयादिकम् । एते द्वे प्राजापत्ये । अथवा वैश्वदेवे ॥ ६ ॥

इन्द्रस्य सुज्ञाने द्वे । द्यौते द्वे । ज्योतिषे वा । प्रजापतेरातीषादीये द्वे ॥ ५.१०.७ ॥

सोमः पुनान ऊर्मिणा (सा. ५७२) इत्यत्र षट् सामान्युत्पन्नानि । तत्र सोमः पुना । नऊर्मिणा (ग्राम. १७.१०.५७२.१) इति मन्द्र-