पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ आर्षेयब्राह्मणम्


भारद्वाजं च ॥ ५.१०.१० ॥

परि कोशं मधुश्चुतम् (सा. ५७७) इत्यत्रैक साम । परिकोशं- मधुश्चुताम् (ग्राम. १७.१०. ५७७. १) इति द्वितीयक्रुष्टादिकं भारद्वाज भरद्वाजेन दृष्टम् । चकारो वाक्यभेदद्योतनार्थः ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाप्ये पञ्चमाध्याये दशमः खण्डः ।। १० ।।