पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशः खण्डः


वासिष्ठं च सफे च । वासिष्ठं चैव सर्फ चैव ॥५.११.१॥

पवस्व मधुमत्तम (सा. ५७८) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र पावा (ग्राम. १७. ११. ५७८. १) इति चतुर्थमन्द्रादिकमाद्य वासिष्ठम् । पावस्वम (ग्राम. १७. ११. ५७८. २) इति द्वितीयतृतीयादिकम् । पवस्व- मधुमा । इहा (ग्राम. १७. ११. ५७८, ३) इति चतुर्थमन्द्रादिकम् । एते द्वे सफनामके व्यापनशीले । अत्र ब्राह्मणम् – सफेन वै देवा इमाँल्लोकान् समाप्नुवन् । यत् माप्नुवंस्तत् सफस्य सफत्वम् (तां. ब्रा. ११. ५. ६) इति ॥ पवस्वमा (ग्राम. १७. ११. ५७८. ४) इति चतुर्थमन्द्रादिक चतुर्थ वासिष्ठम् ॥ पवस्वापधु (ग्राम १७. ११. ५७८. ५) इति द्वितीय- क्रुष्टादिकं पञ्चमं सफमेव ॥ १ ॥

ऐषिराणि चत्वारि ॥५.११.२॥

अभि द्युम्नं बृहद्यशः (सा. ५७९) इत्यत्र सामचतुष्टयम् । अभाइ (ग्राम.१७.११.५७९.१) इति द्वितीयक्रुष्टादिकम् । अभेद्युम्नाम् (ग्राम. १७. ११.५७९.२) इति मन्द्रचतुर्थादिकम् । अभिद्युम्नंबृहत (ग्राम. १७.११. ५७९. ३) इति मन्द्रचतुर्थादिकम् । अभिद्युम्नंबृहद्यशाः (ग्राम. १७.११.५७९. ४) इति मन्द्रमन्द्रादिकम् । एतानि चत्वारि ऐपिराणि एतन्नामधेयानि ।। २ ॥

कार्णश्रवसानि त्रीणि । वाचःसामानि त्रीणि ॥ ५.११.३ ॥

आ सोता परि षिञ्चत (सा. ५८०) इत्यत्र पट् सामान्युत्पन्नानि । तत्र आसोतापागइपाऔहोवा (ग्राम. १७. ११. ५८०.१) इति मन्द्र- क्रुष्टादिकम् । आसोतापारिषि (ग्राम. १७. ११. ५८०. २) इति मन्द्र- द्वितीयादिकम् । आसोतापारिषाइ (ग्राम. १७. ११. ५८०.३) इति मन्द्र- क्रुष्टादिकम् । एतान्याद्यानि त्रीणि कार्णश्रवसानि । कर्णश्रवा नामाङ्गिरसः तेन दृष्टानि ।। आ(ओ?) सोनापारीषिश्चता (ग्राम. १७. ११. ५८०.४) इति मन्द्रमन्द्रादिकम् आसौऔहोवा (ग्राम. १७.११.५८०.५) इति तृतीयद्वितीयादिकम् । आसोतापा (ग्राम. १७.११. ५८०.६) इति तृतीय- चतुर्थादिकम् । एतानि त्रीणि वाचः सामानि ।। ३ ।।