१६४ आर्षेयब्राह्मणम् (ता. ब्रा. १४.११.१४ ) इति । यस्तेमदाः (ग्राम. १३. १. ४७०.२) इति चतुर्थमन्द्रादिकं द्वितीयं सोमसाम सोमेन दृष्टम् । सोमसाम भवति इत्यादि। यत् (एवं ?) सोम आसीत्स तपोऽतप्यत । स एतत् सोमसामापश्यत् । (ता. ब्रा. ११.३.८-९) इति हि ब्राह्मणमनुसंधेयम् । यस्ताइमादाः (ग्राम. १३.१. ४७०. ३) इति तृतीयद्वितीयादिकं तृतीयं प्राजापत्यम् । यस्ताइमादोवरेणियाः (ग्राम. १३.१.४७०. ४) इति द्वितीयक्रुष्टादिकं चतुर्थं साम सोमसामैव । यस्ते । मादो। वा। ईया (ग्राम. १३.१. ४७०. ५) इति मन्द्रद्वितीयादिकं पञ्चमं भास- मेव । यस्तेमदोवरेणियाए (ग्राम. १३. १. ४७०. ६) इति मन्दमन्द्रादिकं प्राजापत्यमेव । अत्र अन्तिम एव विकल्पः । वा अथवा अध्यर्धेडं सोमसाम इति ॥ ४ ॥
वैष्टम्भे द्वे । पाष्ठौहे द्वे । वैष्टम्भं चैव । क्षुल्लकवैष्टम्भं वा । पाठौहं चैव ॥ ५.१.५॥
तिस्रो वाच उदीरते (सा. ४७१) इत्यत्र षट् सामान्युत्पन्नानि । तिस्रोवाचाः (ग्राम. १३.१. ४७१.१) इति मन्द्रादिकम् । तिस्रोवाचाः । उदाइरात (ग्राम. १३. १. ४७१. २) इति मन्द्रादिकम् । एते द्वे वैष्टम्मे। तिस्रोवाचोहाइ (ग्राम.१३.१.४७१.३) इति द्वितीयक्रुष्टादिकम् । तिम्रोवा- चउदीरतो (ग्राम. १३.१. ४७१. ४) इति मन्द्रचतुर्थादिकम् । एते द्वे तृतीय- चतुर्थे पाष्टौहे । तिस्रोवा (ग्राम. १३. १. ४७१. ५) इति चतुर्थतृतीयादिक पञ्चमं साम वैष्टम्भम् एव । विष्टम्भकारणम् । तथा च ब्राह्मणम् वैष्टम्भ भवत्यहा एतदव्लीयन तहेवा वैष्टम्मैय॑ष्टभ्नुवंस्तद्वैष्टम्भस्य वैष्टम्भ- त्वम्। दिश इति निधनम् (तां. ब्रा. १२.३.९-११) इति । अत्र विकल्पः । अथवा एतत्साम क्षुल्लकवेष्टम्भम् । तिस्रोवाचाउदीरताइ (ग्राम. १३.१.४७१. ६) इति चतुर्थमन्द्रादिकम् अन्तिम पाष्ठौहम् एव । पष्ठवाड् वाङ्गिरसः तेन दृष्टम् । तथा च ब्राह्मणम् – पाष्ठौहं भवति । पष्ठवाड्वा एतेनाङ्गिरसश्चतुर्थास्याह्रो वाचं वदन्तीमशृणोत् । स होवागिति निधनम् (ता. बा. १२. ५. १०-११) इति ॥ ५॥