पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः अध्यायः (१) १६३

वृषा पवस्त्र धारया (सा. ४६९) इत्यत्र नव सामान्युत्पन्नानि । तत्र वृषापवा (ग्राम. १२.१. ४६९.१) इति मन्द्रादिकम् । वृषाहाउ (ग्राम. १२. १. ४६९. २) इति चतुर्थमन्द्रादिकम् । एते आये द्वे सोमसामनी । वृषापव (ग्राम. १२. १. ४६९.३) इति चतुर्थमन्द्रादिकं तृतीयम् आशुभार्गव- नामकम् । आशुभार्गवं भवति । अहर्वा एतदव्लीयत तद्देवा आशुना- भ्यधिन्वंस्तदाशोराशुत्वम् (ता. ब्रा. १४. ९. ९-१०) इति ब्राह्मणमनु- संधेयम् । आइवृषा (ग्राम. १२.१.४६९.४) इति चतुर्थमन्द्रादिकम् । वृषा । पवाएहिया (ग्राम. १२.१.४६९.५) इति मन्द्रतृतीयादिकम् । एते तुरीय चमे वैश्वदेवे । वृपापावा (ग्राम. १२. १. ४६९. ६) इति क्रुष्टद्विती- यादिकम् । वृषापावा (ग्राम. १२. १. ४६९.७) इति द्वितीयक्रुष्टादिकम् । एते षष्ठसप्तमे इन्द्रमामनी । औहोहोहाइवृपा (ग्राम. १२. १. ४६९.८) इति मन्द्रचतुर्थादिकम् । वृषाऔहोहोहाइ (ग्राम. १२. १. ४६९.९) इति मन्द्रचतुर्थादिकम् । एते अन्तिमे द्वे यु(यौ ?) क्ताश्वे । युक्ताश्वो नामाङ्गि- रसस्तेन दृष्टे । तथा च ब्राह्मणम् – युक्ताश्वो वाङ्गिरसः शिशू जाती विपर्यहरत्तस्मान्मन्त्रोऽपाक्रामत् स तपोऽतप्यत स एतद्योक्ताश्वमपश्यत् । (ता. ब्र. ११. ८.८) इत्यादि ॥ ३ ॥

भासं च । सोमसाम च । प्राजापत्यं च । सोमसाम चैव । भासं चैव । प्राजापत्यं चैव । अध्यधैर्ड वा सोमसाम॥५.१.४॥

यस्ते मदो वरेण्यः (सा. ४७०) इत्यत्र षट् सामानि उत्पन्नानि । तत्र यास्ताइ (ग्राम. १३. १. ४७०.१) इति चतुर्थमन्द्रादिकम् एतदाद्यं साम भासं भासकं प्रकाशकमेतन्नामधेयम् । तथा च ब्राह्मणम् – स्वर्भानुर्वा आसुर आदित्यं तमसाऽविध्यत् । स न व्यरोचत । तस्यात्रिर्भासेन तमोऽपाहन् स व्यरोचत यद्वै तद्भासा अभवत् तद्भासस्य भासत्वम्