पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ आर्षेयब्राह्मणम्

आजिगम् । सुरूपे द्वे । जमदग्नेः शिल्पे द्वे । संहितं च वसिष्ठस्य शकुलः। जमदग्नेश्च गम्भीरम् । संहितं चैव ॥५.१.२॥

खादिष्ठया मदिष्ठया (सा. ४६८) इत्यत्र नव सामान्युत्पन्नानि । खादाइष्ठाया (ग्राम. १२.१. ४६८.१) इति क्रुष्टद्वितीयादिकं प्रथममाजिग- [मेत] नामकम् । स्वादिष्ठया (ग्राम. १२.१.४६८.२) इति द्वितीयक्रुष्टा- दिकम् । स्वादिष्ठयौहो (ग्राम. १२. १.४६८. ३) इति द्वितीयक्रुष्टादिकम् । एते द्वे द्वितीयतृतीये सामनी सुरूपे एतत्संज्ञे । ओइस्वादी (ग्राम. १२.१. ४६८. ४) इति द्वितीयतृतीयादिकम् । उहुवाइ । स्वादी (ग्राम. १२. १. ४६८.५) इति द्वितीयतृतीयादिकम् । एते तुरीयपञ्चमे जमदग्नेः शिल्पे एतन्नामधेये । खादाइष्ठया (ग्राम. १२.१.४६८.६) इति चतुर्थमन्द्रादिक षष्ठं संहितम् । स्वादिष्ठयामदिष्ठयापवस्वसोमधारयाइ (ग्राम. १२. १. ४६८.७) इति चतुर्थमन्द्रादिकं सप्तमं वसिष्ठस्य च शकुलः । औहोहुम् स्थिहाएहिया। हाहाइ । स्वादाइष्ठाया (ग्राम. १२.१. ४६८.८) इति मन्द्रचतुर्थादिकमेतदष्टमं जमदग्नेश्च गम्भीरम् । स्वादिष्टयाम (ग्राम. १२.१.४६८.९) इति चतुर्थमन्द्रादिकम् अन्तिमं साम संहितमेव । संहितं संयोज [न] करणम् । अत्र ब्राह्मणम् --- तासु संहितं साध्या वै नाम देवा आसंस्तेऽवच्छिद्य तृतीयसवनं माध्यंदिनेन सबनेन सह स्वर्ग लोकमायंस्ते देवाः संहितेन समदधुर्यत् समदधुस्तस्मात् संहितम् (ता. बा. ८. ४. ८-९) इति ॥ २ ॥

सोमसामनी च । आशु च भार्गवम् । वैश्वदेवे द्वे । इन्द्रसामनी द्वे । यौक्ताश्वे द्वे ॥ ५.१.३ ॥