११३ तृतीयः अध्यायः (८)
समुद्रस्य च प्रैयमेधस्य साम ॥ ३.८.७ ॥
अभीषतस्तदा भर (सा. ३०९) इत्यत्र सामैकम् । अभीषतस्तदा- हाउ (ग्राम. ८. ८. ३०२. १) इति मन्द्रादिक प्रेयमेधस्य समुद्रस्य साम ।। ७॥
इन्द्रस्य वैरूपे द्वे । वसिष्ठस्य वा ॥ ३.८.८ ॥
यदिन्द्र यावतस्त्वम् (सा. ३१०) इत्यत्र सामद्वयोत्पत्तिः । यदिन्द्रा (ग्राम. ८. ८. ३१०. १) इति द्वितीयक्रुष्टादिकम् । यदिन्द्रयावत- स्तुवाम् (ग्राम. ८. ८. ३१०.२) इति मन्द्रतृतीयादिकम् । एते द्वे इन्द्रस्य वैरूपे । वसिष्ठस्य वा वैरूपे ॥ ८ ॥
वैश्वदेवं च ॥ ३.८.९॥
त्वमिन्द्र प्रतूर्तिषु (सा. ३११) इत्यत्रैकं साम । त्वमिन्द्रोहाइ (ग्राम, ८. ८. ३११. १) इति चतुर्थमन्द्रादिकं वैश्वदेवम् ॥ ९ ॥
पुरीषं चाथर्वणम् ॥ ३.८.१०॥
प्र यो रिरिक्ष ओजसा (सा. ३१२) इत्यत्र सामैकम् । प्रयो- रिरिक्षओजसाए (ग्राम. ८. ८. ३१२.१) इति मन्द्रमन्द्रादिकम् आथर्वणं पुरीषनामकम् ॥ १० ॥
इति श्रीसायणाचर्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये तृतीयाध्याये अष्टमः खण्डः ॥ ८ ॥
।। बृहतीभाष्यं समाप्तम् ॥