पृष्ठम्:आर्षेयब्राह्मणम्.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः खण्डः

उषसश्च साम ॥३.८.१॥

प्रत्यु अदर्यायति (सा. ३०३ ) इत्यत्रैकं साम । प्रताइ । इहा (ग्राम. ८. ८. ३०३. १) इति द्वितीयक्रुष्टादिकम् उषसः साम ॥ १ ॥

अश्विनोश्च साम ॥ ३.८.२॥

इमा उ वां दिविष्टये (सा. ३०४) इत्यत्र सामैकम् । इमाउवांदि- विष्टया ऐही (ग्राम. ८. ८. ३०४.१) इति द्वितीयतृतीयादिकम् अश्विनोः साम ॥२॥

अश्विनोश्च संयोजनम् ॥ ३.८.३ ॥

कुष्ठः को वामश्विना (सा. ३०५) इत्यत्र सामेकम् । कुष्ठःकोवा- मश्विना (ग्राम. ८. ८. ३०५.१) इति चतुर्थमन्द्रादिकम् अश्विनोः संयोजनम् एतन्नामधेयकम् ।। ३ ।।

अश्विनोश्चैव साम ॥ ३.८.४॥

अयं वां मधुमत्तमः (सा. ३०६) इत्यत्रैक साम । अयाम् । अयंवाम (ग्राम. ८. ८. ३०६.१) इति तृतीयद्वितीयादिकम् अश्विनोरेव साम ॥ ४ ॥ सोमसाम च ॥ ३.८.५॥

आ त्वा सोमस्य (सा. ३०७) इत्यत्रैक साम। आत्वासोमा (ग्राम. ग्राम. ८.८.३०७.१) इति मन्द्रादिक सोमसाम ॥ ५॥

आजमायवं च ॥ ३.८.६॥

अध्वयों द्रावया त्वम् (सा. ३०८) इत्यत्रैकं साम । अध्वर्यो- द्रावयातुवाम् (ग्राम. ८. ८. ३०८. १) इति चतुर्थमन्द्रादिकम् आजमायवम् एतन्नामधेयं साम ।। ६॥